व्यायामेन परीप्सस्व जीवितं कौरवात्मज । न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव। पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान्। सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः । ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत्
यदभूद्धनसंकाशमनीकं व्यधमच्छरैः। तत्प्रपुद्य रथानीकं सिंहदर्पसमो युवा। तान्कुरुन्द्रावयद्राजन्रणे नाग इव श्वसन्
एकेन तेन शूरेण षड्रथाः परिनिर्जिताः । शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा
हयानां च गजानां च शूराणां च धनुष्मताम्। निहतानि सहस्राणि भग्ना च कुरुवाहिनी
सूतपुत्रं शतैर्विद्ध्वा हयान्हत्वा महारथः । अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे
चतुर्भिः पुनरानर्च्छद्भीष्मं शान्तनवं शरैः। स तं विद्ध्वा हयांश्चाशु नास्य वस्त्रं समाददे
दुर्योधनं च बलवान्बाणैर्विव्याध सप्तभिः। तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे
द्रोणं कृपं च बलवान्सोमदत्तं जयद्रथम्। भूरिश्रवसमिन्द्राभं शकुनिं च महारथम्
त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि। विविधानि च वस्त्राणि महार्हाण्याजहार सः
द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे। चापं छित्त्वा विकर्णस्य नीले चादत्त वाससी
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः। यो ममामोचयत्पुत्रं कुरुभिर्ग्रस्तमाहवे
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च। येन मे त्वं च गावश्च मोक्षिता देवसूनुना
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान्। स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्। अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति
एवमाख्यायमानस्तु छन्नं सत्रेण पाण्डवम्। वसन्तं तं तु नाज्ञासीद्विराटः पार्थमर्जुनम्
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना। सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनंजयः
इत्येवं ब्रूहि राजानं विराटं समुपस्थितम्। इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम्। ददौ वस्त्राणि रन्तानि विराटदुहितुः स्वयम्
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च। प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत्
प्रदाय वस्त्राणि किरीटमाली विराटगेहे मुदितः सखीभ्यः । कृत्वा महर्तर्म तदाऽऽजिमध्ये दिदृक्षया सोऽभिजगाम पार्थम्
तं प्रेक्षमाणस्त्वथ धर्मराजं पप्रच्छ पार्थोऽथ स भीमसेनम्। किं धर्मराजो हि यथापुरं मां मुखं प्रतिच्छाद्य न चाह किंचित्
तमेवमुक्त्वा परिशङ्कमानं दृष्ट्वाऽर्जुनं भीमसेनं च राजा। तदाऽब्रवीत्तावभिवीक्ष्य राज- न्युधिष्ठिरस्तत्परिमृज्य रक्तम्
मन्युं नियच्छन्नुपविष्ट आसम्
शुभार्ह राष्ट्रं न खिलीकृतं भवे- द्वयं तु यस्मिन्सुखिनोऽभवाम। क्रुद्धे तु वीरे त्वयि चाप्रतीते राजा विराटो न लभेत शर्म
अजानता तेन च शौर्यमाजौ छन्नस्य सत्रेण बलं च पार्थ। इदं विराटेन मयि प्रयुक्तं त्वां वीक्षमाणो न गतोस्मि हर्षम्
तेनाप्रमेयेन महाबलेन तस्मिंस्तथोक्ते शममास्थितेन। तं भीमसेनो बलवानमर्षी धनंजयं क्रुद्धमुवाच वाक्यम्
न पार्थ नित्यं क्षमकालमाह बृहस्पतिर्ज्ञानवतां वरिष्ठः । क्षमीह सर्वैः परिभूयतेसौ यथा भुडङ्गो विषवीर्यहीनः
विराटमद्यैव निहत्य शीघ्रं सपुत्रपौत्रं सकुलं ससैन्यम्। योक्ष्यामहे धर्मसुतं च राज्ये अद्यैव शीघ्रं त्वरिरेष मात्स्यः
अनेन पाञ्चालसुताऽथ कृष्णा उपेक्षिता कीचकेनाभियुक्ता। तस्मादयं नार्हति राजशब्दं राजा भव त्वं नृप पार्थवीर्यात्
राजा कुरूणां च युधिष्ठिरोऽयं मात्स्येषु राजा भवतु प्रवीरः तं मात्स्यदेहं शतधा भिनद्मि पूर्णोदकं कुम्भमिवाश्मनीह