मया प्रशस्यमाने तु त्वयि पण्डं प्रशंसति। बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा। ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत्
ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः। श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत्
अकार्यं ते कृतं राजन्क्षिप्रमेष प्रसाद्यताम्। मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत्
यावन्न क्षयमायाति कुलं सर्वमशेषनः। स्फीतं वृद्धं च मात्स्यानामयं तावत्प्रसाद्यताम्
प्रणम्य पादयोरस्य दण्डवत्क्षितिमण्डले । प्रगृह्य पादौ पाणिभ्यामयं तावत्प्रसाद्यताम्
दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया। इति यावद्वदेत्कङ् अयं तावत्प्रसाद्यताम्
स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः। क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत। चिरं क्षान्तं मया राजन्मन्युर्मम न विद्यते
यदि स्म तत्पतेद्भूमौ रुधिरं मम पार्थिव । सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ
न दूषयामि राजेन्द्र यस्तु हन्याददूषकम्। फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात्
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला। अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् । परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम्। प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन। त्वया मे सदृशः पुत्रो न भूतो न भविष्यति
पदं पदसहस्रेण यश्चरन्नापराध्नुयात्। तेन कर्णेन ते तात कथमासीत्समागमः
रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः। कृपेन तेन ते तात कथमासीत्समागमः
यस्य तद्विश्रुतं लोके महद्वृत्तमनुत्तमम् । पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम्
योऽयोधीत्समरे रामं जामदग्न्यं प्रतापिनम्। भीष्मोसौ पुरुषव्याघ्र न च युद्धे पराजितः
पराक्रमी च दुर्धर्षो विद्वाञ्शूरो जितेन्द्रियः। दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु
तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे । युद्धमासीत्कथं तात सर्वमेतद्ब्रवीहि मे
पर्वतं यो विनिर्भिन्द्याद्राजपुत्रो वरेषुभिः। दुर्योधनेन ते तात कथमासीत्समागमः
आचार्यो वृष्णिरीराणां पाञ्चालानां च यः प्रभुः। कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः
सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः। तेन द्रोणेन ते तात कथमासीत्समागमः
आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे। तेन वीरेण ते तात कथमासीत्समागमः
सर्वे चैव महावीर्या धार्तराष्ट्रः महारथाः । तैस्तैर्वीरैश्च ते तात कथमासीत्समागमः
न मया निर्जिता गावो न मया कुरवो जिताः। कृतं च कर्म तत्सर्वं देवपुत्रेण केनचित्
स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान्कुरून्। दृष्ट्वा विषण्णं संग्रामे देवपुत्रो न्यवारयत्
स हि तिष्ठन्रथोपस्थे वज्रपाणिनिभो युवा। तेन ते निर्जिता गावस्तेन ते कुरवो जिताः
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् । स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।ट सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः
दुर्योदनं च समरे प्रभिन्नमिव कुञ्जरम्। प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम्
न हास्तिनपुरे त्राणं तव पश्यामि किंचन। न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता