ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु। परस्परममित्रघ्नं सस्वजे तं समागतम्
प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः । दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः। दिष्ट्या संग्राममागम्य भयं तव न किंचन
अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे। एतस्यक बाहुवीर्यं तद्येन गावो जिता मया। कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः
अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा। एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम्। गावः प्रसह्य विजिता रणे मां चाभ्यपालयत्
उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम्। चोदिता राजपुत्रेण जयं मङ्गलवादिनः
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः । कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन्
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः । संपूज्यमानो लोकेन नगरद्वारमागमत्
भेर्यश्च तूर्याणि च वेणवश्च विचित्रवेषाः प्रमदाजनाश्च। पुरो विराटस्य महाबलस्य निष्क्रम्य भूमिंजयमभ्यनन्दनम्
प्रशस्यमानस्तु जयेन तत्र पुत्रो विराटस्य न हृष्यति स्म। संभाष्यमाणस्तु जयेन तत्र सोऽन्तर्मनाः पाण्डवमीक्षमाणः
पुत्र्यै विराटस्य ततो वराणि वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः। सभाजयंश्चापि समागतास्ता दृष्ट्वा जयं तच्च बलं कुमार्यः
सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि। आसाद्यान्तःपुरद्वारं पित्रे संप्रत्यवेदयत्
ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः । वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत्
राजन्पृथुयशस्तुभ्यं जित्वा शत्रून्समागतः। उत्तरः सह सूतेन द्वारि तिष्ठति वारितः
कुमारो योधमुख्यैस्च गणिकाभिस्च संवृतः । पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः
ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत् । प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्। उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नलाः
तस्य हि महाबाहोर्व्रतं नित्यं महात्मनः। यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत्। अन्यत्र संग्रामगतान्न स जीवेत्कथंचन
व्यक्तं भृसं सुसंक्रुद्धो मां दृष्ट्वैव सशोणितम्। विराटमिह सामात्यं हन्यात्सबलावाहनम्
इन्द्रं वापि कुबेरं वा यमं वा वरुणं तथा। मम शोणितकर्तारं मृद्गीयात्किं पुनर्नरम्
क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान् । इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः
इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः। सभायां सह मात्स्येन तूष्णीमुपविवेश ह
ततो राजसुतो ज्येष्ठः प्राविशत्पृथिवींजयः। ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत
पश्यन्युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः। अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम् । हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः
ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम्। भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम्। ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः
केनायं ताडितः कङ्कः केन पापमिदं कृतम्। को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः
श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः। पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः। प्रत्युवाचोत्तरं वाक्यं साध्वसाद्ध्वस्तमानसः
पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम्। अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम्
तत्राजयत्कुरून्सर्वानुत्तरो राष्ट्रवर्धनः। इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला। अजयत्सा कुरून्सर्वानिति मामब्रवीन्मुहुः
प्रशंसिते मया पुत्र विजये तव विश्रुते। बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा