सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा। सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी । उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम्
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता। सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् । युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते। कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः
रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले। तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया। गृहीतमुत्तरीयेण विनाशो मा भवेत्तव
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति। यो यतीशं नियम्येत सहस्रं यातना यमे
यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत। तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा। मया तव हितार्थाय त्वयि प्रणयकारणात्
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा। किमकुर्वन्त ते पश्चात्कथयस्व ममानघ
वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः। यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च। एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम्
अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान्। लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना। जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः। असङ्गतिना तेन विमानेनाशुगामिना। प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः
[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः। अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः । पार्थेनैकेन संग्रामे विस्मयो नो महानहो
कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम्
किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत्। निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान्
तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः । जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ।।]
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः । कुरूनभिमुखां याताः समग्रबलवाहनाः
विराटनगराच्चैव गजाश्वरथसंकुलाः । योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः
विराटप्रहिता सेना नगराच्छीघ्रयायिनी । उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम्
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले । प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् । सैन्यध्वजं निशम्याथ वैराटिं समभाषत
नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः। किंनु खल्वपयातास्ते कुरवो नगरं गताः
ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः । आमुञ्च कवचं वीर चोदयस्व च वाजिनः । जवेनाभिप्रपद्यस्व विराटनगरं प्रति
न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् । ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत्
सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः। कन्या रथेषु दृश्यन्ते योधा विविधवाससः
उत्तरामत्र पश्यामि सखीभिः परिवारिताम्। अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः
रथिनश्च पदाताश्च बहवो न च शस्त्रिणः। विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे। न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा