अधर्मो न स्पृशेदेष महान्मामिह भार्गव। वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्
अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम्। अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्। अनया सह संप्रीतिमतुलां समवाप्नुहि
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी। संपूज्या सततं राजन्मा चैनां शयने ह्वयेः
रहस्येनां समाहूय न वदेर्न च संस्पृशेः। वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्। शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम्
लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम्। द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह
संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः। जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्। प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत्
देवयान्याश्चानुमते सुतां तां वृषपर्वणः। अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्
वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम्। वासोभरन्नपानैश्च संविभज्य सुसत्कृताम्
देवयान्या तु सहितः स नृपो नहुषात्मजः। `प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः
अशोकवनिकामध्ये देवयानी समागता। शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम्। एवमेव सह प्रीत्या बहु कालं मुमोद च
विजहार बहूनब्दान्देववन्मुदितः सुखी
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना। लेभे गर्भं प्रथमतः कुमारं च व्यजायत
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी। ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्
शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता। अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम्
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा। शोकमोहसमाविष्टा वचनं चेदमब्रवीत्
अशोक शोकापनुद शोकोपहतचेतसाम्। त्वन्नामानं कुरुष्वाद्य प्रियसंदर्शनेन माम्। एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत्
ऋतुकालश्च संप्राप्तो न च मेऽस्ति वृतः पतिः। किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत्
देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना। यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः। अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः
केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम्। स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः। क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च
अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया। अशोकवनिकाभ्याशे शर्मिष्ठां प्राप तिष्ठतीम्
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी। प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा। तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा। सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप
वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम्। रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम्
तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे'। अब्रवीदुशना काव्यो देवयानीं यदाऽवहम्। नेयमाह्वयितव्या ते शयने वार्षपर्वणी