कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति। यस्य बाहुबले तुल्यो न भविष्यति कश्चन
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते। किमेवं पुरुषो लोको दिवि वा भुवि विद्यते
तेन संक्षुभितो राजा दीर्यमाणेन चेतसा । अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम्
कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम । बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्। इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम्
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम्। विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम्
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन्। बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत्
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः । तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम्
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा। प्रावर्तत महाबाहोरभिघातान्महात्मनः
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत्। अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा। सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी । उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम्
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता। सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् । युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते। कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः
रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले। तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया। गृहीतमुत्तरीयेण विनाशो मा भवेत्तव
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति। यो यतीशं नियम्येत सहस्रं यातना यमे
यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत। तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा। मया तव हितार्थाय त्वयि प्रणयकारणात्
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा। किमकुर्वन्त ते पश्चात्कथयस्व ममानघ
वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः। यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च। एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम्
अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान्। लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना। जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः। असङ्गतिना तेन विमानेनाशुगामिना। प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः
[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः। अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः । पार्थेनैकेन संग्रामे विस्मयो नो महानहो
कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम्
किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत्। निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान्
तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः । जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ।।]
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः । कुरूनभिमुखां याताः समग्रबलवाहनाः