प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत्
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः । कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः। दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः
अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत्। यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते
ततो विराटः क्षुभितो मन्युना च परिप्लुतः। उवाच वचनं क्रुद्धः परिव्राजमनन्तरम्
तादृशेन तु योधेन महेष्वासेन धीमता। कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम्
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि। वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि। वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया। विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत्। आचरन्विप्रियं राज्ञां न जातु सुखमेधते
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे। नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः । बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति। निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम। यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः। ससोमवरुणादित्यैः सयक्षेशहुताशनैः
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ। अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान्। दुर्योधनो दुष्प्रसहो दुःशासनविविंशती
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ । बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् । अन्ये च बहवः शूरा नानाजनपदेश्वराः
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः। सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः। अन्ये चैव महावीर्या राजपुत्रा महारथाः
मरुद्गणैः परिवृतः साक्षादपि पुरंदरः । तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम्
कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति। यस्य बाहुबले तुल्यो न भविष्यति कश्चन
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते। किमेवं पुरुषो लोको दिवि वा भुवि विद्यते
तेन संक्षुभितो राजा दीर्यमाणेन चेतसा । अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम्
कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम । बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत्। इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम्
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम्। विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम्
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन्। बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत्
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः । तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम्
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा। प्रावर्तत महाबाहोरभिघातान्महात्मनः
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत्। अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्