अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय। आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत। न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे । प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते। द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन। न मे किंचित्त्वया कार्यमन्तरेणापि देवितम्
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद। देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत्
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः । स राज्यं धनमक्षय्यं पणमेकममन्यत
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान्। निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः
विविधानां च रत्नानां धनानां च पराजये। अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम्
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम्। द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये
अथवा मन्यसे राजन्दीव्याव यदि रोचते। एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत्
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः । कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः। दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः
अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत्। यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते
ततो विराटः क्षुभितो मन्युना च परिप्लुतः। उवाच वचनं क्रुद्धः परिव्राजमनन्तरम्
तादृशेन तु योधेन महेष्वासेन धीमता। कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम्
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि। वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि। वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया। विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत्। आचरन्विप्रियं राज्ञां न जातु सुखमेधते
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे। नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः । बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति। निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम। यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः। ससोमवरुणादित्यैः सयक्षेशहुताशनैः
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ। अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान्। दुर्योधनो दुष्प्रसहो दुःशासनविविंशती
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ । बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् । अन्ये च बहवः शूरा नानाजनपदेश्वराः
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः। सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः। अन्ये चैव महावीर्या राजपुत्रा महारथाः
मरुद्गणैः परिवृतः साक्षादपि पुरंदरः । तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम्