भवन्तु ते लब्धजये सुते मे पौराश्च मर्त्याश्च परे च नार्यः । ते शुक्लवस्त्राः प्रभवन्तु मार्गे सुगन्धमाल्याभरणाश्च नार्यः
भजन्तु सर्वा गणिकाः सुतं मे नार्यश्च कन्याः सहसैनिकाश्च । स्वलंकृतास्ताः सुभगाः सुवेषाः पुत्रस्य पन्थानमनुव्रजन्तु
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम्। शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम्
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता। सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम्
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन। तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः
मूताश्च सर्वे सहमागधाश्च हृष्टा विराटस्य पुरे जनौघाः । भेर्यश्च तूर्याणि च वारिजाश्च वेपैः परार्ध्यैः प्रमदाजनाश्च
वन्दिप्रवादाः पणवादिकाश्च तथैव वाद्यानि च वंशशब्दाः । कांस्यं सतालं मधुरं च गीत- मादाय नार्यो नगरान्निरीयुः
प्रत्युद्ययुः पुत्रमनन्तवीर्यं ते ब्राह्मणाः शान्तिपराः प्रधानाः । स्वाध्यायवेदाध्ययनक्रमज्ञाः स्वस्तिक्रियागीतजपप्रधानाः
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः। मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत्
व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया। प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय। आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत। न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे । प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते। द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन। न मे किंचित्त्वया कार्यमन्तरेणापि देवितम्
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद। देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत्
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः । स राज्यं धनमक्षय्यं पणमेकममन्यत
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान्। निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः
विविधानां च रत्नानां धनानां च पराजये। अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम्
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम्। द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये
अथवा मन्यसे राजन्दीव्याव यदि रोचते। एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत्
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः । कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः। दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः
अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत्। यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते
ततो विराटः क्षुभितो मन्युना च परिप्लुतः। उवाच वचनं क्रुद्धः परिव्राजमनन्तरम्
तादृशेन तु योधेन महेष्वासेन धीमता। कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम्
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि। वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि। वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया। विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत्। आचरन्विप्रियं राज्ञां न जातु सुखमेधते