अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः । विराटनगरं प्राप्य जयं प्रावेदयंस्तदा
राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् । पराजयं कुरूणां च उपायान्तं तथोत्तरम्
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः। उत्तरः सह सूतेन कुशली च परंतपः
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः। दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून्। ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला
देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः । कृष्णस्य सारथिश्चैव न बृहन्नलया समौ
ततो विराटो नृपतिः संप्रहृष्टतनूरुह। श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः। संतोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः
गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च। उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत
राजमार्गाः क्रियन्तां वै पताकाभिरलंकृताः। पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः। वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम
भवन्तु ते लब्धजये सुते मे पौराश्च मर्त्याश्च परे च नार्यः । ते शुक्लवस्त्राः प्रभवन्तु मार्गे सुगन्धमाल्याभरणाश्च नार्यः
भजन्तु सर्वा गणिकाः सुतं मे नार्यश्च कन्याः सहसैनिकाश्च । स्वलंकृतास्ताः सुभगाः सुवेषाः पुत्रस्य पन्थानमनुव्रजन्तु
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम्। शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम्
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता। सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम्
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन। तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः
मूताश्च सर्वे सहमागधाश्च हृष्टा विराटस्य पुरे जनौघाः । भेर्यश्च तूर्याणि च वारिजाश्च वेपैः परार्ध्यैः प्रमदाजनाश्च
वन्दिप्रवादाः पणवादिकाश्च तथैव वाद्यानि च वंशशब्दाः । कांस्यं सतालं मधुरं च गीत- मादाय नार्यो नगरान्निरीयुः
प्रत्युद्ययुः पुत्रमनन्तवीर्यं ते ब्राह्मणाः शान्तिपराः प्रधानाः । स्वाध्यायवेदाध्ययनक्रमज्ञाः स्वस्तिक्रियागीतजपप्रधानाः
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः। मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत्
व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया। प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय। आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत। न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे । प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते। द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन। न मे किंचित्त्वया कार्यमन्तरेणापि देवितम्
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद। देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत्
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः । स राज्यं धनमक्षय्यं पणमेकममन्यत
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान्। निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः
विविधानां च रत्नानां धनानां च पराजये। अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम्
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम्। द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये
अथवा मन्यसे राजन्दीव्याव यदि रोचते। एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ