मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः। वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः । भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा। क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः । ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे
प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम्। वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः
अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान्। न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन्
भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा। मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः । आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन्
ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः । प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम्
एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति
स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता। यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः
तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन्
पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति। तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः
मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः । एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि
यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः। न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन्
स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम्। श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः
ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात। तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः
निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा। प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा
पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता। विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य। बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम्
ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः । परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत्। राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः। गोकुलानि महाबाहो वीरगोपालकैः सह
ततोऽपराह्णे यास्यामो विराटनगरं प्रति। आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः
गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया। नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः। वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम
मया जिता सा ध्वजिनी कुरुणं मया च गावो विजिता द्विषद्भ्यः। एवं तु कामं नगरं प्रविश्य मयाऽऽत्मना कर्म कृतं ब्रवीत
स विजित्य धनं चापि विराटो वाहिनीपतिः। प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः
जित्वा त्रिगर्तान्संग्रामे गाश्चैवानाय्य केवलाः। अशोभत महाराजः सह पार्थैः श्रिया वृतः
तमासनगत वीरं सुहृदां प्रीतिवर्धनम् । तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह
सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् । विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा
ततः स राजा मात्स्यानां विराटो वाहिनीपतिः। प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम्। उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत्
आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि। अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम्
ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् । बृहन्नलासहायश्च निर्यातः पृथिवींजयः