कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्। दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते। हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम। अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्
दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया। आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः
तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः। गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय। स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम्
त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः। सर्वं निवेदयामास धात्री तस्मै यथातथम्
श्रुत्वैव च स राजानं दर्शयामास भार्गवः। दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः। ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्। नान्यपूर्वगृहीतं मे तेनाहमभया कृता। नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे
अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः। कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया। स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात्। गृहाणेमां मया दत्तां महिषीं नहुषात्मज
अधर्मो न स्पृशेदेष महान्मामिह भार्गव। वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्
अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम्। अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्। अनया सह संप्रीतिमतुलां समवाप्नुहि
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी। संपूज्या सततं राजन्मा चैनां शयने ह्वयेः
रहस्येनां समाहूय न वदेर्न च संस्पृशेः। वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्। शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम्
लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम्। द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह
संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः। जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्। प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत्
देवयान्याश्चानुमते सुतां तां वृषपर्वणः। अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्
वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम्। वासोभरन्नपानैश्च संविभज्य सुसत्कृताम्
देवयान्या तु सहितः स नृपो नहुषात्मजः। `प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः
अशोकवनिकामध्ये देवयानी समागता। शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम्। एवमेव सह प्रीत्या बहु कालं मुमोद च
विजहार बहूनब्दान्देववन्मुदितः सुखी
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना। लेभे गर्भं प्रथमतः कुमारं च व्यजायत
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी। ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्
शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता। अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम्
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा। शोकमोहसमाविष्टा वचनं चेदमब्रवीत्
अशोक शोकापनुद शोकोपहतचेतसाम्। त्वन्नामानं कुरुष्वाद्य प्रियसंदर्शनेन माम्। एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत्