तेषामनीकानि निरीक्ष्य पार्थो विकीर्णयानध्वजकार्मुकाणि। गाण्डीवधन्वा प्रहसन्कुरूणां शङ्ख प्रदध्मौ बलवान्बलेन
ते शङ्खशब्दं तुमुलं निशम्य ध्वजस्य शब्दं च ततोऽन्तरिक्षे। गाण्डीवशब्देन मुहुर्मुहुस्ते भीता ययुः सर्वधनं विहाय
तानर्जुनो दूरतरं विभज्य धनं च सर्वं निखिलं निवर्त्य । आपृच्छ्य तान्दूरमनुप्रयात्वा धनञ्जयस्तत्र कुरून्महात्मा। गुरूंश्च सर्वानभिवाद्य बाणैर्न्यवर्ततोदग्रमनाः शरैः सह
पितामहं शान्तनवं महात्मा द्वाभ्यां शराभ्यामभिवाद्य वीरः। द्रोणं कृपं चैव कुरूंश्च मान्याञ्शरैश्च सर्वानभिवाद्य सङ्ख्ये। दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मकुटं शरौघैः
अराजवंशस्य किमर्थमेतन्नित्यं न धार्यं मकुटं त्वयेति। संपातितं भूमितले सरत्नं प्रीतस्तुतो मात्स्यसुतो बभूव
धनञ्जयं नागमिव प्रभिन्नं विजित्य शत्रून्परिवर्तमानम्। गास्ता विजित्याभिमुखं प्रयान्तं न शक्नुवन्तः कुरवः प्रयाताः
धनञ्जयं सिंहमिवात्तशस्त्रं गा वै विजित्याभिमुखं प्रयान्तम् । उदीक्षितुं पार्थिवास्ते न शेकुर्यथैव मध्याह्नगतं हि सूर्यम्
रक्तानि वासांसि च तानि गृह्य रणोत्कटो नाग इव प्रभिन्नः। जित्वा च वैराटिमुवाच पार्थः प्रहृष्टरूपो रथिनां वरिष्ठः
आवर्तयाश्वान्पशवो जितास्ते याताः परे प्रैहि पुरं प्रहृष्टः । उद्धुष्यतां ते विजयोऽद्य शीघ्रं गात्रं तु ते सेवतु माल्यगन्धः । माता तु ते नन्दतु बान्धवाश्च त्वामद्य दृष्ट्वा समुदीर्णहर्षम्
ततो विजित्य संग्रामे कुरुगोवृषभेक्षणः। समानयामास तदा विराटस्य धनं महत्
मतषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः। वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः । भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा। क्षुत्पिणसापरिश्रान्ता विदेशस्था विचेतसः । ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे
प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम्। वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः
अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान्। न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन्
भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा। मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः । आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन्
ततो निवृत्ताः कुरवो यग्नाश्च दिवमास्थिताः । प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम्
एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति
स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता। यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः
तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्संपरिगृह्य राजन्
पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति। तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः
मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः । एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि
यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः। न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन्
स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम्। श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः
ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात। तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः
निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा। प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा
पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता। विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य। बृहन्नलारूपमथो विधाय प्रायात्य मात्स्यो नगरं प्रवेष्टुम्
ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः । परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत्। राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः। गोकुलानि महाबाहो वीरगोपालकैः सह
ततोऽपराह्णे यास्यामो विराटनगरं प्रति। आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः