पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम्। विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा। संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य । तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम्। तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद
हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे । गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य। रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी । अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम्
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे। सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि
ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम्। उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम्
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः। भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः
संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः। वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा । दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः । भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम्
शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः। कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम्। अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम्
समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् । भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम्
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी। इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम्
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम्। न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि। कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् । सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान्
च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप। न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः । युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोस्मि। तदर्थमावृत्य मुखं प्रयच्छनरेन्द्रवृत्तं स्मर धार्तराष्ट्रः
मोघं तवैतद्भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात्। दुर्योधनस्त्वं प्रथितोसि नाम्ना सुयोधनः सन्निकृतिप्रधानः
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम्। परीप्स युद्धेन कुरुप्रवीर प्राणान्मया बाणबलाभितप्तान्
आहूयमानस्तु स तेन सङ्ख्ये महात्मना वै धृ निवर्तितश्चापि गिराङ्कुशेन गजो मदोन्मत्त इवाङ्कुशेन
सोमृष्यमाणो वचसाऽभिमृष्टो महारथेनातिरथस्तरस्वी । ततः स पर्याववृते रथेन भोगी यथा पादतलाभिमृष्टः
ततो दुर्योधनः क्रुद्धो विक्षिपन्धनुरुत्तमम्। धृतिं कृत्वा सुविपुलां प्रत्युवाच पऩञ्जयम्
सोहमिन्द्रादभिक्रुद्धान्न बिभेमीह भारत । भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च। किमर्थं युद्धसमये पलापिष्ये नरोत्तम
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत। संन्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः । रथं रथेन संगम्य योधयामास पाण्डवम्
तं प्रेक्ष्य कर्णः परिवर्तमानं निवृत्य संस्तम्भितसर्वगात्रम् । दुर्योधनं दक्षिणतोऽन्वरक्षत्पार्थान्महाबाहुरधिज्यधन्वा