तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन्। प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः । युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद
स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम्। आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन । रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः
अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम्। सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म
स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः । शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः । अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः । रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत्
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये। आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः
पार्थेन सृष्टः स तु गृध्रपत्रो ह्यापुङ्खदेशं प्रविवेश नागम्। विदार्य शैलप्रवरप्रकाशं यथाऽशनिः पर्वतमिन्द्रसृष्टः
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा। संसीदमानो निपपात भूमौ वज्राहतं शृङ्गमिवाचलस्य
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसाऽवतीर्य । तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवरप्रकाशम्। तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद
हते गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे । गाण्डीवमुक्तैर्विशिखैः प्रभिन्नास्ते योधमुख्याः सहसा प्रजग्मुः
दृष्ट्वैव बाणेन हतं च नागं योधांश्च सर्वान्नृपतिर्निरीक्ष्य। रथं समावृत्य कुरग्नवीरो रणात्प्रदुद्राव यतो न पार्थः
तं भीतरूपं त्वरितं व्रजन्तं दुर्योधनं शत्रुगणावमर्दी । अन्वाह्वयद्योद्धुमनाः किरीटी बाणाभिविद्धं रुधिरं वमन्तम्
तस्मिन्महेष्वासवरेऽतिविद्धे धनञ्जयेनाप्रतिमेन युद्धे। सर्वाणि सैन्यानि भयार्दितानि त्रासं ययुः पार्थमुदीक्ष्य तानि
ततस्तु ते शान्तिपराश्च सर्वे दृष्ट्वाऽर्जुनं नागमिव प्रभिन्नम्। उच्चैर्नदन्तं बलमत्तमाजौ मध्ये स्थितं सिंहमिवर्षभाणाम्
गाण्डीवशब्देन तु पाण्डवस्य योधा निपेतुः सहसा रथेभ्यः। भयार्दिताः पार्थशराभितप्ताः सिंहाभिपन्ना इव वारणेन्द्राः
संरक्तनेत्रः पुनरिन्द्रकर्मा वैकर्तनं द्वादशभिः पृषत्कैः। वित्रास्य तेषां द्रवतां समैक्षद्दुःशासनं चैकरथेन पार्थः
कर्णोऽब्रवीत्पार्थशराभितप्तो दुर्योधनं दुष्प्रसहं च दृष्ट्वा । दृष्टोऽर्जुनोऽयं प्रतियाम शीघ्रं श्रेयो विधास्याम इतो गतेन
मन्ये त्वया तात कृतं च कार्यं यदर्जुनोऽस्माभिरिहाद्य दृष्टः । भूयो वनं गच्छतु सव्यसाची पश्यामि पूर्णं समयं न तेषाम्
शरार्दितास्ते युधि पाण्डवेन प्रससुरन्योन्यमथाह्वयन्तः। कर्णोऽब्रवीदापतत्येष जिष्णुर्दुर्योधनं संपरिवार्य यामः
सर्वास्त्रविद्वारणयूथपाभः काले प्रहर्ता युधि शात्रवाणाम्। अयं च पार्थः पुनरागतो नो मूलं च रक्ष्यं भरतर्षभाणाम्
समीक्ष्य पार्थं तरसाऽऽपतन्तं दुर्योधनः कालमिवात्तशस्त्रम् । भयार्तरूपः शरणं प्रपेदे द्रोणं च कर्णं च कृपं च भीष्मम्
तं भीतरूपं शरणं व्रजन्तं दुर्योधनं शत्रुसहो निषङ्गी। इत्यब्रवीत्प्रीतमनाः किरीटी बाणाभितप्तं रुधिरं वमन्तम्
विहाय कीर्तिं च यशश्च लोके युद्धात्परावृत्य पलायसे किम्। न नन्दयिष्यन्ति तवाहतानि तूर्याणि युद्धादवरोपितस्य
न भोक्ष्यसे सोऽद्य महीं समग्रां यानानि वस्त्राण्यथ भोजनानि। कल्याणगन्धीनि च चन्दनानि युद्धात्परावृत्य तु भोक्ष्यसे किम् । सुवर्णमाल्यानि च कुण्डलानि हारांश्च वैडूर्यकृतोपधानान्
च्युतरा युद्धान्न तु शङ्खशब्दास्तथा भविष्यन्ति तवाद्य पाप। न भोगहेतोर्वरचन्दनं च स्त्रियश्च मुख्या मधुरप्रलापाः । युद्धात्प्रयातस्य नरेन्द्रसूनो परे च लोके फलिता न चेह