त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति। सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे । सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ । प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः
दक्षिणामेव तु दिशं हयानुत्तर वाहय। पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम्
अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे । अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम्
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः। प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः । तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये । हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः। यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम्। क्रोशमात्रमतिक्रम्य बलमन्वानयामहे। यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे। अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम्
न्यवर्तत कुरुश्रेष्ठ स्वेनानीकेन संवृतः । वार्यमाणो दुराधर्षैर्भीष्मद्रोणकृपैर्भृशम्
ततोऽर्जुनश्चित्रमुदारवेगं समीक्ष्य गाण्डीवमुवाच वाक्यम्। भोगीन्द्रकल्पं भुवनेषु रूढमभेद्यमच्छेद्यमदाह्यमाजौ
इदं त्विदानीमनयं कुरूणां शिवं धनुः शत्रुनिबर्हणं च। अत्याशुगं वेगवदाशुकर्तृ अवारणीयं महते रणाय
प्रदारणं शत्रुवरूथिनीनामनीकजित्संयति वज्रकल्पम्। वैधव्यदं शत्रुनितम्बिनीनां मुखप्रदं कौरववंशजानाम्
प्रयाहि यत्रैष सुयोधनो हि तं पातयिष्यामि शरैः सुतीक्ष्णैः । आचार्यपुत्रं च सुयोधनं च पितामहं सूतसुतं च सङ्ख्ये । द्रोणं कृपं चैव निवार्य सर्वाञ्शिरो हरिष्यामि सुयोधनस्य
तदुत्तरश्चित्रमुदारवेगं धनुश्च दृष्ट्वा निशिताञ्शरांश्च। भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम्
तमब्रवीन्मात्स्यसुतं प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता । मया सहायेन कुतो भयं ते प्रेह्युत्तराश्वानुपमन्त्रयस्व
आश्वासितस्तेन धनञ्जयेन वैराटिरश्वानतुदञ्जवेन। विष्फारयंस्तद्धनुरुग्रवेगं युयुत्समानः पुनरेव जिष्णुः
गाण्डीवशब्देन तु तत्रतत्र भूमौ निषेदुर्बहवोऽतिवेलम्। शङ्खस्य शब्देन तु वानरस्य शब्देन ते योधवराः समन्तात्
एषोऽतिमानी धृतराष्ट्रपुत्रः सेनामुखे सर्वसमृद्धतेजाः। पराजयं नित्यममृष्यमाणो निवर्तते युद्धमनाः पुरस्तात्
तमेव याहि प्रसमीक्ष्य युक्तः सुयोधनं तत्र सहानुजं च
तमापतन्तं प्रसमीक्ष्य सर्वे कुरुप्रवीराः सहसाऽभ्यगच्छन्। प्रहस्य वीरः स तु तानतीत्य दुर्योधने द्वौ निचखान बाणौ
तेनार्दितो नाग इव प्रभिन्नः पार्थेन विद्धो धृतराष्ट्रपुत्रः । युयुत्समानोऽतिरथेन सङ्ख्ये स्वयं विगृह्यार्जुनमाससाद
स भीमधन्वानमुदग्रवेगो धनञ्जयं शत्रुशतैरजेयम्। आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंहितेन । रराज पार्थो रुधिरं क्षरन्वै यथैकरश्मिर्भगवान्दिवार्कः
अथास्य बाणेन विदारितस्य प्रादुर्वभूवास्रमजस्रमुष्णम्। सा तस्य जाम्बूनदपुष्पचित्रा मालेव धाराऽभिविराजते स्म
स तेन बाणाभिहतस्तरस्वी दुयोधनेनोद्धतमन्युवेगः । शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्वः
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः । अन्योन्यमाजौ पुरुषप्रवीरौ सम समाजघ्नतुराजमीढौ
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः । रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं पाण्डवमभ्यधावत्
तमापतन्तं त्वरितं गजेन्द्रं धनञ्जयः कुम्भललाटमध्ये। आकर्णपूर्णेन दृढायसेन बाणेन विव्याध भृशं तु वीरः