ततः पार्थमुपाद्रुत्य दुस्सहः सविविंशतिः। अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे
तावुभौ गृध्रपत्राभ्यां निशिताभ्यां धनञ्जयः। विव्याध युगपद्व्यग्रस्तयोर्वाहानसूदयत्
तौ हताश्वौ तु विद्धाङ्गौ धृतराष्ट्रात्मजावुभौ । अभिपत्य रथैरन्यैरपनीतौ पदानुगैः
व्यद्रावयदशेषांश्च धृतराष्ट्रसुतांस्तदा । विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत्
किरीटमाली कौन्तेयो लब्धलक्षः प्रतापवान् । पातयन्नुत्तमाङ्गानि बाहूश्च परिघोपमान्
अशेरत महावीराः शतशो रुक्ममालिनः
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः। रुचिरमकरकुण्डलैर्मही पुरुषशिरोभिरथास्तृता बभौ
सुनसं चारुदीप्ताश्चं क्लृप्तश्मश्रु स्वलंकृतम् । अदृश्यत शिरश्छिन्नमनेकं हेमकुण्डलम्
एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात्
अथ दुर्योधनः कर्णः सौबलः शकुनिस्तदा। द्रोणश्च द्रोणपुत्रश्च कृपश्चातिरथो रणे
सहिता विजयं तत्र योधयन्तो महारथाः। विष्फारयन्तश्चापानि बलवन्ति महाबलाः
ततः कीर्णपताकेन रथेनादित्यवर्चसा। पुनरावृत्य मार्गस्थं ददृशुर्वानरध्वजम्
ते महास्त्रैर्महेष्वासाः परिवार्य धनञ्जयम्। अभ्यवर्षन्सुसंक्रुद्धा महामेघा इवाचलम्
शरौघान्सम्यगस्यन्तो जीमूता इव शारदाः । युद्धे तस्थुर्महावीर्याः प्रतपन्तः किरीटिनम्
इषुभिर्बहुभिस्तूर्णं निशितैर्लोमवापिभिः । अदूरात्प्रत्यवस्थाय पाण्डवं समयोधयन्
ततः प्रहस्य बीभत्सुस्तमैन्द्रं पञ्चवार्षिकम् । अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत्
नाक्षणां न च चक्राणां न रथानां न वाजिनाम् । अङ्गुलाद्दव्यङ्गुलाद्वापि विवृतं प्रत्यदृश्यत
यथा रश्मिभिरादित्यो वृणुते सर्वतो दिशम्। एवं किरीटिना मुक्तं सर्वं प्राच्छादयञ्जगत्
यथा बलाहके विद्युत्पावको वा शिलोच्चये। तथा गाण्डीवमभवच्चक्राभुधमिवाततम्
यथा वर्षति पर्जन्यो विद्युत्पतति पर्वते। विस्फूर्जिता दिशः सर्वा ज्वलद्गाण्डीवमावृणोत्
त्रस्ताश्च रथिनःक सर्वे चैन्द्रमस्त्रं विकुर्वति। सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे । सहिता द्रोणभीष्माभ्यां प्रमोहगतचेतनाः
तानि सर्वाणि सैन्यानि भग्नानि भरतर्षभ । प्राद्रवन्त दिशः सर्वा भयाद्वै सव्यसाचिनः
दक्षिणामेव तु दिशं हयानुत्तर वाहय। पुरा सार्थी भवत्येषामयं शब्दोऽत्र तिष्ठताम्
अश्चत्थाम्नः प्रतिरथं प्राचीमुद्याहि सारथे । अचिराद्द्रष्टुमिच्छामि गुरुपुत्रं यशस्विनम्
मोहयित्वा तु तान्सर्वान्धनुर्घोषेण पाण्डवः। प्रसव्यं चैवमावृत्य क्रोशार्धं प्राद्रवत्तदा
यथा सततगो वायुः सुपर्णश्चापि शीघ्रगः । तथा पार्थरथः शीघ्रमाकाशे पर्यवर्तत
मुहूर्तोपरते शब्दे प्रतियाते धनञ्जये । हस्त्यश्वरथपादातं पुरस्कृत्य महारथाः
द्रोणभीष्ममुखाः सर्वे सैन्यानां जघने ययुः। यत्ताः पार्थमपश्यन्तः सहिताः शरविक्षताः
दिष्ट्या दुर्योधनो मुक्तः सैन्यं भूयिष्ठमागतम्। क्रोशमात्रमतिक्रम्य बलमन्वानयामहे। यात यत्र वनं गुल्मं नदीमन्वश्मकां प्रति
अथ दुर्योधनो दृष्ट्वा भग्नं स्वं बलमाहवे। अमृष्यमाणः क्रोधेन प्रतिमार्गन्धनञ्जयम्