तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः । अतीव समरे भाति मातरिश्वप्रकम्पितः
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम्। आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च। सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम
दक्षिणेनाथ वामेन कतमेन स्विदस्यति। इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम्। नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम्
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम्। वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः। मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् । रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम्। वनमादीपयिष्यामि कुरूणामस्त्रतेजसा
जयतो भारतीं सेनामेकस्य मम संयुगे। शतं मार्गा भविष्यन्ति पावकस्येव कानने
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् । तानहं रथनीडेभ्यः परलोकाय शात्रवान्। एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान्
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च। मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम्
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान्। मातलिं सारथिं कृत्वा निवातकवचान्रणे । हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः । परं पारे समुद्रस्य हिरण्यपुरमारुजम्
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम्। पौलोमान्कालकेयांश्च समरे भृशदारुणान् । असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् । प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि । सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः। अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान्
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः । कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम्
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना। व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः
रथिसिंहमनाधृष्यं जिगीषन्तं परान्रणे। अभ्यधावत्तदैवोग्रो ज्यां विकर्षन्धनञ्जयः
दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभः
अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः । अभ्ययुर्भीमधन्वानो मौवी पर्यस्य बाहुभिः
दुःशासनो विकर्णश्च वृषसेनो विविशतिः। अभीता भीमधन्वानं पाण्डवं पर्यवारयन्
तस्य दुःशासनः षष्टिं वामपार्श्वे समार्पयत्। अस्यतः प्रतिसन्धाय कुन्तीपुत्रस्य धीमतः
पुनश्चैव स भल्लेन विद्ध्वा वैराटिमुत्तरम् । द्वितीयेनार्जुनं वीरं प्रत्यविध्यत्स्तनान्तरे
तस्य जिष्णुरुदावृत्य क्षुरधारेण कार्मुकम्। प्राकृन्तद्गृध्रपत्रेण जातरूपपरिष्कृतम्
अथैनं पञ्चभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे। सोपयातो रथोपस्थात्पार्थबाणाभिपीडितः
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपाराजितः। तं विकर्णः शरैस्तीक्ष्णैर्गृध्रपक्षैः शिलाशितैः। विव्याध परवीरध्नमर्जुनं धृतराष्ट्रजः
ततस्तमपि कौन्तेयः शरेण नतपर्वणा । ललाटेऽभ्यहनद्गाढं स विद्धः प्राद्रवद्भयात्