संनियम्य हयानेतान्मन्दं वाहय सारथे । आचार्यपुत्रं समरे योधयिष्येऽपराजितम्
पुरा ह्येष मया युक्तः स मे भवति पृष्ठतः ।। एवमुक्तेऽर्जुनेनासावश्वत्थामरथं प्रति
एषोपयाति बीभत्सुर्व्यथितो गाढवेदनः
तं तु तत्रैव यास्यामि नासौ मुच्येत जीवितात्
नासौ भयेन निर्यातो महात्मा पाकशासनिः। नैवं भीता निवर्तन्ते न पुनर्गाढवेदनाः
यद्येनमभिसंरब्धं पुनरेवाभियास्यसि। बहून्यस्त्राणि जानीते न पुनर्मोक्ष्यते भवान्
दिष्ट्या दुर्योधनो मुक्तो दिष्ट्या गावः पलायिताः। मुक्तो दिष्ट्या च संग्रामे किं रणेन करिष्यसि
क्रोशमात्रमपाक्रम्य बलमन्वानयामहे। अन्वागतबलाः पार्थं पुनरेवाभियास्यथ
कर्णं पराजितं दृष्ट्वा पार्थो वैराटिमब्रवीत्। एतं मां प्रापयेदानीं रथवृन्दं प्रहारिणाम्
यत्र शान्तनवो भीष्मः सर्वेषां नः पितामहः । सुयुद्धं काङ्क्षमाणो वै रथे तिष्ठति दंशितः
तालो वै काञ्चनो यत्र वज्रवैडूर्यभूषितः । अतीव समरे भाति मातरिश्वप्रकम्पितः
दारुणं प्रहरिष्यामि रथबृन्दानि धन्विनाम्। आदास्याम्यहमेतेषां धनुर्ज्यावेष्टनानि च
अस्यन्तं दिव्यमस्त्राणि चित्रमुत्तर पश्यसि
शतह्रदां जृम्भमाणां मेघस्थां प्रावृषीव च। सुवर्णपृष्ठं गाण्डीवं पश्यन्तु कुरवो मम
दक्षिणेनाथ वामेन कतमेन स्विदस्यति। इति मां शत्रवः सर्वे न विज्ञास्यन्ति सारथे
अस्त्रोदकां हयावर्तां नागनक्रां रथह्रदाम्। नदीं प्रस्कन्दयिष्यामि परलोकापहारिणीम्
पाणिपादशिरःपृष्ठबाहुशङ्खचराचरम्। वनं कुरूणां छेत्स्यामि भल्लैः सन्नतपर्वभिः
तूणीशयाः सुपुङ्खाग्रा विशिखा दुन्दुभिस्वनाः। मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः
ध्वजवृक्षं शरतृणं नागाश्वश्वापदाकुलम् । रथसिंहगणैर्युक्तं धनुर्वल्लिसमाकुलम्। वनमादीपयिष्यामि कुरूणामस्त्रतेजसा
जयतो भारतीं सेनामेकस्य मम संयुगे। शतं मार्गा भविष्यन्ति पावकस्येव कानने
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् । तानहं रथनीडेभ्यः परलोकाय शात्रवान्। एकः प्रद्रावयिष्यामि चक्रपाणिरिवासुरान्
असंभ्रान्तो रथे तिष्ठन्समेषु विषमेषु च। मार्गमावृत्य तिष्ठन्तमपि भेत्स्यामि पर्वतम्
अहमिन्द्रस्य संग्रामे द्विषतो बलदर्पितान्। मातलिं सारथिं कृत्वा निवातकवचान्रणे । हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा
निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः । परं पारे समुद्रस्य हिरण्यपुरमारुजम्
हत्वा षष्टिसहस्राणि रथानामुग्रधन्विनाम्। पौलोमान्कालकेयांश्च समरे भृशदारुणान् । असुरानहनं घोरान्रौद्रेणास्त्रेण सारथे
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः क्षिप्रहस्तताम् । प्रगाढनिपुणं चित्रमतिवृद्धं प्रजापतेः
रौद्रं रुद्रादहं वेद्मि वारुणं वरुणादपि । सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः। अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान्
अद्य गाण्डीवनिर्मुक्तैःशरौघै रोमहर्षणैः । कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम्
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना। व्यगाहत रथानीकं भीमं भीष्मस्य वाजिभिः