मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः । मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति
शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते। पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः
तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् । राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ।।]
ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत्। अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम्। न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे। यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् । गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् । उपदेशमनुस्मृत्य रक्षमाणो महारथम्
पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे। शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने
यस्य नास्ति समो लोके पितृदत्तवरश्च यः। जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः । यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः
दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे। पृथासुतहितार्थाय पराजित इवाभवत्
भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे। ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान्
आददानश्च नाराचान्विमृशन्निषुधी अपि। संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम्
कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे। न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः। अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा। न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम्
नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् । पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः
सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् । दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति
पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि। युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम्
को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् । विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते
युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात्। उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे
तं समन्ताद्रथाः पञ्च परिवार्य धनञ्जयम्। त इषून्सम्यगस्यन्तो मुमुक्षन्तोपि जीवितात्
ते लाभमिव मन्वानाः क्षिप्रमार्च्छन्धनञ्जयम्। शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः
बहुभिर्निशितैर्बाणैर्विविधैर्लोमवापिभिः । आद्रवन्प्रत्यवस्थाय प्रत्यविध्यन्धनञ्जयम्
ततः प्रहस्य बीभत्सुः सर्वशस्त्रभृतांवरः । दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथसत्तमान्
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्। एवं गाण्डीवनिर्मुक्तैः शरैः प्राच्छादयद्दिशः
न रथानां न नगानां न ध्वजानां न वाजिनाम्। अविद्धं निशितैर्बाणैरासीद्द्यूङ्गुलमन्तरम्
सर्वे शान्तिपरा योधाः स्वचित्तं नाभिजझिरे । हस्तिनोऽश्वाश्च वित्रस्ता व्यवलीयन्त भारत
यथा नलवनं नागः प्रभिन्नः षाष्टिहायनः । एवं सर्वानपामृद्गादर्जुनः शस्त्रतेजसा
गाण्डीवस्य तु घोषेण पृथिवी समकम्पत। मनांसि धार्तराष्ट्राणामप्यकृन्तद्धनञ्जयः
ततो विगाह्य सैन्यानां मध्यं शस्त्रभृतांवरः । सारथिं समरे शूरस्त्वभ्यभाषत वीर्यवान्