तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् । शशंस देवराजाय चित्रसेनः प्रतापवान्
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः । चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते। सौराणां च महास्राणां विचित्रोऽयं समागमः
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे । न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम्
उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् । उभौ विचित्रकर्माणावुभौ युधि दुरासदौ
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्। पूजयामास दिव्येन पुष्पवर्षेण भारत
[अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत । अहमेको हनिष्यामि समेतान्सर्वपाण्डवान्
इति कर्म समक्षं मे सभामध्ये त्वयोदितम् । न तु तत्कृतमेकस्माद्भीतो धावसि सूतज
वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् । जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम्
अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा । प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया
मा मानभङ्गं विप्रेन्द्र कुरु विश्रुतकर्मणः । मानभङ्गेन राज्ञां तु बलहानिर्भविष्यति
शूरा वदन्ति संग्रामे वाचा कर्माणि कुर्वते। पराक्रमन्ति संग्रामे स्वस्य वीर्यानुसारतः
तस्मात्तं नार्हति भवान्गर्हितुं शूरसंमतम् । राज्ञैवमुक्तः स द्रौणिर्गतरोषोऽभवत्तदा ।।]
ततो भीष्मः शान्तनवो बाणान्पार्श्वे समार्पयत्। अस्यतः प्रतिसन्धाय विवृतं सव्यसाचिनः
ततः प्रसह्य बीभत्सुः पृथुधारेण कार्मुकम्। न्यकृन्तद्गृध्रपत्रेण भीष्मस्यामिततेजसः
अथैनं दशभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे। यतमानं पराक्रान्तं कुन्तीपुत्रो धनञ्जयः
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् । गोङ्गेयो युधि दुर्धर्षस्तस्थौ दीप इवातुरः
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् । उपदेशमनुस्मृत्य रक्षमाणो महारथम्
पराक्रमे च शौर्ये च वीर्ये सत्त्वे बले रणे। शस्त्रास्त्रेषु च सर्वेषु लाघवे दूरपातने
यस्य नास्ति समो लोके पितृदत्तवरश्च यः। जितश्रमो जितारातिर्निस्तन्द्रिः खेदवर्जितः । यः स्वेच्छामरणः शूरः पितृशुश्रूषणे रतः
दुर्योधनहितार्थाय युद्ध्वा पार्थेन संगरे। पृथासुतहितार्थाय पराजित इवाभवत्
भीष्मं विजित्य संग्रामे कुरूणां मिषतां रणे। ततो युद्धमनाः प्रायात्पार्थः पञ्च महारथान्
आददानश्च नाराचान्विमृशन्निषुधी अपि। संस्पृशानश्च गाण्डीवं भूयः कर्णं समभ्यगाम्
कर्ण यत्तत्सभामध्ये बह्वबद्धं प्रभाषसे। न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः। अदूरात्प्रत्युपस्थाय जृम्भते केसरी यथा। न पलायस्व शूरश्चेत्स्थित्वा युध्यस्व फल्गुनम्
नाहं बिभेमि बीभत्सोः कृष्णाद्वा देवकीसुतात् । पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः
सत्वाधिकानां शूराणां धनुर्वेदोपजीविनाम् । दर्शनाञ्जायते दर्पः स्वरश्च न विषीदति
पश्यत्वाचार्यपुत्रो मामर्जुनेन समं युधि। युध्यमानं सुसंयुक्तं दैवं तु दुरतिक्रमम्
को दोषः कर्ण शूराणां वाचा साकं हि पौरुषम् । विद्यते यदि तल्लोके गुणोत्तरमिहोच्यते
युव्यस्व त्वमभीः पार्थं प्रपलायस्व मा रणात्। उक्तं वचः स्मरन्कर्ण नाहमित्यादि संयुगे