इयं च मे सखी दासी यत्राहं तत्र गामिनी। दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः
कथं तु ते सखी दासी कन्येयं वरवर्णिनी। असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी। नैवंरूपा मया नारी दृष्टपूर्वा महीतले
श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना। असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता
दैवेनोपहता सुभ्रूरुताहो तपसापि वा। अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति
अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत्। पुरा दुश्चरितेनेयं तव दासी भवत्यहो
सर्व एव नरश्रेष्ठ विधानमनुवर्तते। विधानविहितं मत्वा मा विचित्राः कथाःकृथाः
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च। को नाम त्वं कुतश्चासि कस्य पुत्रश्च शस मे
ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः। राजाहं राजपुत्रश्च ययातिरिति विश्रुतः
केनास्यर्थेन नृपते इमं देशमुपागतः। जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः। बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह। त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव
असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा। शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत्
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि। अविवाह्या हि राजानो देवयानि पितुस्तव
परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा। अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम्। `अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते।' ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम्
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने। पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः
पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा। तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्। गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्। दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्। दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते। हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम। अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्
दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया। आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः
तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः। गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय। स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम्
त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः। सर्वं निवेदयामास धात्री तस्मै यथातथम्
श्रुत्वैव च स राजानं दर्शयामास भार्गवः। दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः। ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्। नान्यपूर्वगृहीतं मे तेनाहमभया कृता। नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे
अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः। कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया। स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात्। गृहाणेमां मया दत्तां महिषीं नहुषात्मज