ततः प्रासृजदुग्राणि शरजालानि पाण्डवः। तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत्
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः । प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः
ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन्। दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत्
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः। कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् । आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात्
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ । चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् । कौबेरं वारुणं चैव याम्यं वायव्यमेव च । प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा। साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे। महास्राणां संप्रयोगं समरे भीष्मपार्थयोः
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत
अथ जिष्णुरुदावृत्य शितधारेण कार्मुकम् । न्यकृन्तद्गृध्रपत्रेण शातकुम्भपरिष्कृतम्
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे। समादाय नरव्याघ्रः सज्यं चक्रे महाबलः
शरांश्च सुबहुन्क्रुद्धो मुमोचाशु धनंजये । अर्जुनोपि शरांस्तीक्ष्णान्भीष्माय निशितान्बहून्। चिक्षेप च महातेजास्तथा भीष्मश्च पाण्डवे
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् । न विशेषस्तदा राजन्दृश्यते सुमहात्मनोः
अथावृणोद्दश दिशः शरैरतिरथस्तदा । किरीटमाली कौन्तेयः शूरं शान्तनवं तथा
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् । बभूव तत्र सङ्घेऽस्मिन्लोके राजंस्तदद्भुतम्
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः। शेरते स्म महाबाहो कौन्तेयस्याभितो रथम्
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः। असक्ताः पुङ्खसंसक्ताः श्वेतवाहनपत्रिणः
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः। आकाशे प्रत्यदृश्यन्त हंसानामिव पङ्क्तयः
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः । प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः
तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् । शशंस देवराजाय चित्रसेनः प्रतापवान्
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः । चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते। सौराणां च महास्राणां विचित्रोऽयं समागमः
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे । न शक्नुवन्ति सैन्यानि पाण्डवं प्रसमीक्षितुम्
उभौ विश्रुतकर्माणावुभौ शूरौ महीक्षिताम् । उभौ विचित्रकर्माणावुभौ युधि दुरासदौ
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्। पूजयामास दिव्येन पुष्पवर्षेण भारत
[अश्वत्थामा ततोऽभ्येत्य द्रुतं कर्णमभाषत । अहमेको हनिष्यामि समेतान्सर्वपाण्डवान्
इति कर्म समक्षं मे सभामध्ये त्वयोदितम् । न तु तत्कृतमेकस्माद्भीतो धावसि सूतज
वैचित्रवीर्यजाः सर्वे त्वामाश्रित्य पृथासुतान् । जेतुमिच्छन्ति संग्रामे भवान्युध्यस्व फल्गुनम्
अश्वत्थामोदितं वाक्यं श्रुत्वा दुर्योधनस्तदा । प्रत्युवाच रुषा द्रौणिं कर्णप्रियचिकीर्षया