कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ । सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः । उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ । उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ । उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ । सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।। अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति। ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते
इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् । तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः
अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः । कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत्
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्। समार्पयन्महावेगाज्ज्वलतः पन्नगानिव
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः। ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान्
सारथिं च हयांश्चास्य विव्याध दशभिः शरैः । उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः
ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम्। ध्वजं च सारथिं चापि विव्याध दशभिः शरैः
तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम्। भीष्मस्य सह पार्थेन बलिवासवयोरिव
सन्ततं शरजालाभिराकाशं समपद्यत। अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः
भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे। अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि
अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे । गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः । अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः
तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् । व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत्
ततस्तानि विसृष्टानि शरजालानि सङ्घशः। आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति
ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः । पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः
ततः प्रासृजदुग्राणि शरजालानि पाण्डवः। तावन्ति शरजालानि भीष्मः पार्थाय प्राहिणोत्
साश्वं ससूतं सरथं स पार्थं समाचिनोद्भारतो वत्सदन्तैः । प्रच्छादयामास दिशश्च सर्वा नभश्च बाणैस्तपनीयपुङ्खैः
ततो देवर्षिगन्धर्वाः साधुसाध्वित्यपूजयन्। दुष्करं कृतवान्भीष्मो यदर्जुनमवारयत्
बलवानर्जुनो दक्षः क्षिप्रकारी च पाण्डवः। कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे
ऋते शान्तनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् । आचार्यवरमुख्याद्वा भारद्वाजान्महाबलात्
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषोत्तमौ । चक्षूंषि सर्वभूतानां मोदयन्तौ महाबलौ
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् । कौबेरं वारुणं चैव याम्यं वायव्यमेव च । प्रयुञ्जानौ महात्मानौ समरे तौ विरेजतुः
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा। साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्
नैतदन्यो मनुष्येषु प्रदर्शयितुमाहवे। महास्राणां संप्रयोगं समरे भीष्मपार्थयोः
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत