तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः। वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् । वायुनेव महामेघं सहसाऽभिसमीरितम्। तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः। प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः
तथा हि गुप्त एतेषां दुराधर्षः पितामहः । हन्यमानेषु योघेषु धनंजयमुपाद्रवत्
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् । शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् । प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत्
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा । प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् । देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान्
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा । नादयामासतुर्द्यां च खं च भूमिं च सर्वशः
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः । यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनंजयौ । सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः । उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ । उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ । उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ । सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ।। अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति। ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते
इति संपूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् । तं रणे संप्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः
अथ बहुविधतूर्यशङ्खयोषैर्विविधरवैः सह सिंहनादमिश्रैः । कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत्
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्। समार्पयन्महावेगाज्ज्वलतः पन्नगानिव
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः। ध्वजस्थं कपिमाजघ्नुः ध्वजाग्रनिलयांश्च तान्
सारथिं च हयांश्चास्य विव्याध दशभिः शरैः । उरस्यताडयत्पार्थं त्रिभिरेवायसैः शरैः
ततोऽर्जुनः शरैस्तीक्ष्णैर्विद्ध्वा कुरुपितामहम्। ध्वजं च सारथिं चापि विव्याध दशभिः शरैः
तद्युद्धमभवद्धोरं रोमहर्षणमद्भुतम्। भीष्मस्य सह पार्थेन बलिवासवयोरिव
सन्ततं शरजालाभिराकाशं समपद्यत। अम्बुदैरिव धाराभिस्तयोः कार्मुकनिःसृतैः
भल्लैर्भल्लाः समाहत्य कुरुपाण्डवयो रणे। अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि
अग्निवक्रोपमं घोरं मण्डलीकृतमाहवे । गाण्डीवमभवञ्जिष्णोः सव्यं दक्षिणमस्यतः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः । अर्जुनश्छादयद्भीष्मं शरवर्षैरनेकशः
तां समुद्रमिवोद्धूतां शरवृष्टिं समुद्यताम् । व्यधमत्सायकैर्भीष्मः सोर्जुनं च न्यवारयत्
ततस्तानि विसृष्टानि शरजालानि सङ्घशः। आहतानि व्यशीर्यन्तं अर्जुनस्य रथं प्रति
ततः कनकपुङ्खाग्रैः शितैः संनतपर्वभिः । पतद्भिः खगवाजैश्च द्यौरासीत्संवृता शरैः