अभीक्ष्णमकरोत्पार्थो नदीमुत्तमशोणिताम्। गजवर्ममहाद्वीपामश्वदेहमहाशिलाम्
पदातिदेहसंघाटां रथावलिमहातरुम्। केशशाद्वलसंछन्नां सुतरां भीतिदां नृणाम्
अगाधरक्तोदवहां यमसागरगामिनीम्। दुस्तरां भीरुमर्त्यानां शूराणां सुतरां नृप। प्रावर्तयन्नदीमेवं भीषणां पाकशासनिः
तस्याददानस्य शरान्सन्दधानस्य मुञ्चतः। विकर्षतश्च गाण्डीवं न किंचिद्ददृशेऽन्तरम्
एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत्। त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः
बाणान्धनुषि संधाय चतुरः पाकशासनिः। भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत्
तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् । सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति
नरसिंहमुपायान्तं जिगीषन्तं परान्रणे। वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनंजयम्
वैकर्तनात्मजो वीरः संग्रामे लोकविश्रुतः। शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः
आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः । मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे। तुतोष च ततः पार्थो वृषसेनपराक्रमम्
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् । न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम्
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे। स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः। आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम्
तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः । युगं ध्वजं शरासं च चिच्छेद तरसा रणे
ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः । रणमध्यादपययुः पार्थबाणाभिपीडिताः
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् । एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम्
मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः । असौ शान्तनवो भीष्मस्तत्र याहि परंतप
अस्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे। घोररूपाणि चित्राणि लघूनि च गुरूणि च
अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप। श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा
तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन सांप्रतम्। अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम्
तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः। वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् । वायुनेव महामेघं सहसाऽभिसमीरितम्। तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुंजयः। प्रत्युञ्जगाम युद्धार्थी महर्षभमिवर्षभः
तथा हि गुप्त एतेषां दुराधर्षः पितामहः । हन्यमानेषु योघेषु धनंजयमुपाद्रवत्
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् । शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् । प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत्
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा । प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् । देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान्
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा । नादयामासतुर्द्यां च खं च भूमिं च सर्वशः
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः । यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्रतेजसा