ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी । निमेषादिव चिच्छेद तदद्भुतमिवाभवत्
विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः। दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत्
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः। अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे। स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत्। दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम्
एकैकमस्मान्संग्रामे पराजयति फल्गुनः। अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च। अन्ये च बहवः शूरा वयं जेष्याम वासविम्
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः। अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत
स सायकमयैर्जालैः सर्वतस्तान्महारथान्। प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान्
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च। पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते। मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः
अविषह्य शरान्सर्वे पार्थचापच्युपान्रणे। उदक्प्रयान्ति विध्वस्ता रथेभ्यो रथिनस्तदा। सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः
शरैस्तु ताड्यमानानां कवचानां महात्मनाम्। ताम्रराजतलौहानां प्रादुरासीन्महास्वनः
छन्नमायोधनं जज्ञे शरीरैर्गतचेतसाम्। श्रान्त्या गलितशस्त्राणां पततामश्वसादिनाम्
शून्यान्कुर्वन्रथोपस्थान्मानवैरास्तृणोन्महीम्। प्रनृत्यन्निव संग्रामे चापहस्ते धनंजयः
शिरांस्यपातयत्सङ्ख्ये क्षत्रियाणां नरर्षभः। श्रुत्वा गाण्डीवनिर्घोषं विष्णूजितमिवाशने। त्रस्तानि सर्वसैन्यानि व्यलीयन्त च भागश
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च। पतितानि स्म दृश्यन्ते शिरांसि करणमूर्धनि
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः। सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी
शिरसां पात्यमानानां समरे निशितैः शरैः। अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ
दर्शयित्वा तदाऽऽत्मानं रौद्रं रौद्रपराक्रमः। जघान समरे शूराञ्छतशोऽथ सहस्रशः
तथावरुद्धश्चारण्ये दशवर्षाणि त्रीणि च। क्रोधाग्निमुत्ससर्जाजौ धार्तराष्ट्रेषु पाण्डवः
तस्य तद्दहतः सैन्यं दृष्ट्वा चास्य पराक्रमम्। सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य भारत
यथा नलवनं नागः प्रभिन्नः षष्टिहायनः। एवं सर्वानपामृद्रादर्जुनः शस्त्रतेजसा
विद्राव्य च ततः सैन्यं त्रासयित्वा महारथान्। अर्जुनो जयतांश्रेष्ठः पर्यावर्तत भारत
तस्य मार्गान्विचरतो निघ्नतश्च रणाजिरे । प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी
अस्थिशैवालसंबाधां संग्रामे पार्थनिर्मिताम् । शरचापप्लवां घोरां मांसशोणितकर्दमाम्
रथोडुपां चान्त्रसर्पां केशशैवालशाड्वलाम्। करवालासिपाठीनां चामरोष्णीषफेनिलाम्
अश्वग्रीवामहावर्तां कबन्धजलमानुषाम्। काककङ्करुतां तीव्रां सारसक्रौञ्चनादिताम्
सिंहनादमहानादां शङ्खस्वनमहास्वनाम् । वीरोत्तमाङ्गपद्माढ्यां शरचापमहानलाम्
पदातिमत्स्यकलुषां गजशीर्षककच्छपाम्। गोमायुगसंघुष्टां मांसमञ्जाभिकर्दमाम्
प्रावर्तयन्नदीं घोरां पिशाचगणसेविताम् । अपारामनिवासां च रक्तोदां सर्वतो वृताम्