सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः । एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् । उद्गतः समरे मेघो धाराभिरिव पर्वतम्
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः । कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम्
ततः शरसहस्रेण पार्थमप्रतिमौजसम् । अर्दयित्वा महाबाहुर्ननाद समरे कृपः
ततः कनकपुङ्खेन शरेण नतपर्वणा। बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम्
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् । जग्राह समरे पार्थो भूयो बहुशिलीमुखान्
तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः । जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान्
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद। मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः
सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च। नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः
तान्निहत्य ततः पार्थो निमेपादिव भारत । पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान्
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्। षष्ठेन तु शिरः सङ्ख्ये कृपस्य रथसारथेः
त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः । द्वादशेन तु भल्लेन कृपस्य सशरं धनुः
छित्त्वा वज्रनिकाशेन फल्गुनः प्रहसन्निव। त्रयोदशेनेन्द्रसमः प्रत्यविध्यत्स्तनान्तरे
स छिन्नधन्वा विरथो हताश्वो हतसारथिः । अथ शक्तिं परामृश्य सूर्यवैश्वानरप्रभाम् । चिक्षेप सहसा क्रुद्धः पार्थायाद्भुतकर्मणे
तामर्जुनस्तथारूपां शक्तिं हेमपरिष्कृताम्। रुरोध सायकैस्तीक्ष्णैरर्धचन्द्रमुखैश्च ताम्
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः। सापतद्दशधा भूमौ पार्थेन निहता शरैः
शक्त्यां तु विनिकृत्तायां विरथः शरपीडितः। गदापाणिरवप्लुत्य रथात्तूर्णममित्रहा। गदां चिक्षेप सहसा पार्थायामिततेजसे
सा च मुक्ता गदा गुर्वी रूपेणास्य परिष्कृता । अर्जुनस्य शरैर्नुन्ना प्रतिमार्गं जगाम सा
अथ खङ्गं समुद्धृत्य शतचन्द्रं च भानुमत्। इयेष पाण्डवं हन्तुं कृपो लघुपराक्रमः
स शरद्वत्सुतस्तूर्णं महाचार्यः सुशिक्षितः । खेचरेव चचारकैः क्रमाच्चर्मासिधृग्भुवि
ततः क्षुरप्रैः कौन्तेयो दशभिः खङ्गचर्मणी । निमेषादिव चिच्छेद तदद्भुतमिवाभवत्
विषण्णवदमस्तत्र विनाशात्खङ्गचर्मणोः। दन्तैर्दन्तच्छदान्दष्ट्वा चुकोप हृदि दीर्घवत्
भवत्विति पुनश्चोक्त्वा युद्धापगमनोद्यतः। अश्वत्थाम्नस्तु स रथं कृपः समभिपुप्लुवे। स्वस्रीयस्य महातेजा जग्राह च धनुः पुनः
एतस्मिन्नन्तरे क्रुद्धो भीष्मो द्रोणमथाब्रवीत्। दृष्ट्वा कृपं फल्गुनेन पीडितं चोर्जितं च तम्
एकैकमस्मान्संग्रामे पराजयति फल्गुनः। अहं द्रोणश्च कर्णश्च द्रौणिर्गौतम एव च। अन्ये च बहवः शूरा वयं जेष्याम वासविम्
समागम्य ततः सर्वे भीष्मद्रोणमुखा रथाः। अर्जुनं सहसा युक्ताः प्रत्ययुध्यन्त भारत
स सायकमयैर्जालैः सर्वतस्तान्महारथान्। प्राच्छादयच्छरौघैस्तान्नीहार इव पर्वतान्
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः । भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्
नागाश्वकायान्निर्भिद्य लौहानि कवचानि च। पार्थस्य शरवर्षाणि न्यपतञ्शतशः क्षितौ
त्वरमाणः शरानस्यन्पाण्डवस्तु प्रकाशते। मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः