ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः । विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः
तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् । न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम्
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः । पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः
ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा। योजयामास च तदा मौर्व्या गाण्डीवमोजसा
तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् । ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत
ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः । चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा । विव्याध निशितैश्चापि शरैराशीविपोपमैः
सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः। वारणेनेव मत्तेन मत्तो वारणयूथपः
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः । रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम्
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः। युध्यमानौ महात्मानौ द्विरदाविव संगतौ
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ । शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः। तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे। जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः। आजगाम महाबाहुः कृपः शस्त्रभृतांवरः । अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् । आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम्
तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ। वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ
श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः। अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया
कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम्
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान्। कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः
जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति । नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम्
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः। चचार समरे पार्थश्चित्रमार्गान्विदर्शयन्
सर्वाश्चैव दिशो बाणैः प्रदिशश्च महाबलः । एकच्छायमिवाकाशं सर्वतः कृतवान्प्रभुः
प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम् । उद्गतः समरे मेघो धाराभिरिव पर्वतम्
स शरैरर्पितः ऋद्धः शितैरग्निशिखोपमैः । कृपो बभूव समरे विधूमोऽग्निरिव ज्वलंम्
ततः शरसहस्रेण पार्थमप्रतिमौजसम् । अर्दयित्वा महाबाहुर्ननाद समरे कृपः
ततः कनकपुङ्खेन शरेण नतपर्वणा। बिभेद समरे पार्थः कृपस्य ध्वजमुत्तमम्
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् । जग्राह समरे पार्थो भूयो बहुशिलीमुखान्
तैस्तदातीं महाबाहुः कृपस्य रथरक्षिणः । जघान क्षत्रियश्रेष्ठो युध्यमानान्महारथान्
चन्द्रकेतुः सुकेतुश्च चित्राश्वो मणिमांस्तद। मुञ्जमौलिश्च विक्रान्तो हेमवर्णो भयावहः
सुरथोऽतिरथश्चैव सुपेणोऽरिष्ट एव च। नृकेतुश्च सहानीकास्ते निषेदुर्गतासवः
तान्निहत्य ततः पार्थो निमेपादिव भारत । पुनरन्यान्समाधत्त त्रयोदश शिलीमुखान्