अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः। पूजयामास पार्थस्य कोपं चास्य तदाऽकरोत्
स भन्युवशमापन्नः पार्थमभ्यद्रवद्रणे । किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्
आवृत्य च महाबाहुर्यतो द्रोणस्ततोऽभवत्। अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्
स तु लब्धान्तरस्तूर्णमपायाञ्जवनैर्हयैः । छिन्नवर्मध्वजरथो निकृत्तः परमेषुभिः
पराजिते तदा द्रोणे द्रोणपुत्रः समागतः। सदण्ड इव रक्ताक्षः कृतान्तः समरे स्थितः
तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः। शरजालेन महता वर्षमाण इवाम्बुदः
तयोर्देवासुरसमः सन्निपातो महानभूत् । किरतोः शरजालानि वृत्रवासवयोरिव
न स्म सूर्यस्तदा भाति न च वाति समीरणः । शरगाढे कृते व्योम्नि छायाभूतमिवाभवत्
महांश्चटचटाशब्दो योधयोर्युध्यमानयोः । दह्यतामिव वेणूनामासीत्परमदारुणः
हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसाः । ते राजन्न प्रजानन्ति दिशं कांचन मोहिताः
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः । विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः
तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् । न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनंजयम्
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः । पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः
ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा। योजयामास च तदा मौर्व्या गाण्डीवमोजसा
तं दृष्ट्वा ऋद्धमायान्तं प्रभिन्नमिव कुञ्जरम् । ऋद्धः समाह्वयामास द्रौणिर्युद्धाय भारत
ततोऽर्धचन्द्रपाहृत्य तेन पार्थः समाहतः । चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा । विव्याध निशितैश्चापि शरैराशीविपोपमैः
सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः। वारणेनेव मत्तेन मत्तो वारणयूथपः
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः । रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम्
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः। युध्यमानौ महात्मानौ द्विरदाविव संगतौ
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ । शरै राशीविषाकारैर्ज्वलद्भिरिव पावकैः
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः। तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे। जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः। आजगाम महाबाहुः कृपः शस्त्रभृतांवरः । अर्जुनं प्रतियोद्धुं वै युद्धकामो महारथः
अथं द्रौणे रथं त्यक्त्वा कृपस्य रथमुत्तमम् । आजगामार्जुनस्तूर्णं सूर्यवैश्वानरप्रभम्
तौ वीर सूर्यसंकाशौ योत्स्यमानौ महारथौ। वाषिकाविव जीमूतौ व्यरोचेतां व्यवस्थितौ
श्रगृह्य गाण्डिवं लोके विश्रुतं पुनरर्जुनः। अभ्ययाद्भरतश्रेष्ठो विनिघ्नञ्शरमालया
कृपश्च धनुरादाय तथैवार्जुनमभ्यगाम्
प्रगृह्य बलवच्चापं नाराचान्रक्तभोजनान्। कृपः पार्थाय चिक्षेप शंतशोऽथ सहस्रशः
जीमूत इव धर्मान्ते शरवर्पं विमुञ्चति । नन्दयन्सुहृदः सर्वान्प्रत्ययुध्यत फल्गुनम्
विकृष्य बलवच्चापं पाण्डवोऽमितविक्रमः। चचार समरे पार्थश्चित्रमार्गान्विदर्शयन्