तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत्। अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव
महागजाविवासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्। अवारयच्छितैर्बाणैरर्जुनो जयतांवरः
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः। इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् । विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् । अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ । उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः। स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत्
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः। अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः । मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान्। एकच्छायमकुर्वातां गगनं शरवृष्टिभिः
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु। पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः
ततो नागा रथाश्वाश्च सादिनश्च विशांपते। शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः । सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः। बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने। प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् । दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत्
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्। जेतारं सर्वदैत्यानां सर्वेषां च महारथम्
अविभ्रमं च शिक्षां च लाघवं दूरपातनम् । पार्थस्य समरे दृष्ट्वा द्रोणस्यासीच्च विस्मयः
तत्प्रवृत्तं चिरं घोरं तयोर्युद्धं महात्मनोः । अवर्तत महारौद्रं लोकसंक्षोभकरकम्
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः । विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभः
तस्य बाणमयं वर्षे शलभानामिवाभवत् । न च बाणान्तरे तस्य वायुः शक्नोति सर्पितुम्
अभीक्ष्णं संदधानस्य बाणानुत्सृजतस्तथा। नान्तरं ददृशे किंचित्पार्थस्यापततोपी च
युद्धे तु कृतशीघ्रास्त्रे वर्तमाने सुदारुणे। शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदैरयत्
ततः शरसहस्राणि शराणां नतपर्वणाम्। युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात्
विकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ।। हाहाकारो महानासीत्सैन्यानां भरतर्षभ
पाण्डवस्य तु शीघ्रास्त्रं मघवा समपूजयत्। गन्धर्वाप्सरसश्चैव ये च तत्र समागताः
द्रोणं युद्धार्णवे मग्नं दृष्ट्वा पुत्रः प्रतापवान्। ततो वृन्देन महता रथिनां रथियूथपः । आचार्यपुत्रस्तु शरैः पाण्डवं प्रत्यवारयत्