एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः। नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः
मरीचिविकचस्येव राजन्भानुमतो वपुः। आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम्
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः । तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः । बभासे तिमिरं व्योम्नि विधूय सविता यथा
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे। विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् । असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा। द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः । अभवद्विस्मयकरः सैन्यानां भरतर्षभ
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः। प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम्। वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः। एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः । आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून्। आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः । पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत्। अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव
महागजाविवासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्। अवारयच्छितैर्बाणैरर्जुनो जयतांवरः
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः। इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् । विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् । अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ । उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः। स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत्
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः। अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव
दर्शयेतां महास्राणि भारद्वाजार्जुनौ रणे
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः । मुक्तंमुक्तं द्रोणचापाद्ग्रमते स्म पुनः पुनः
एवं शूरौ महेष्वासौ विसृजन्तौ शिलाशितान्। एकच्छायमकुर्वातां गगनं शरवृष्टिभिः
ततोऽर्जुनेन मुक्तानां पततां च शरीरिपु। पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः
ततो नागा रथाश्वाश्च सादिनश्च विशांपते। शोणिताक्ताश्च दृश्यन्ते पुष्पिता इव किंशुकाः
बाहुभिश्च सकेयूरैर्निकृत्तैश्च महारथैः । सुवर्णाचित्रैः कवचैर्ध्वजैश्च विनिपातितैः
योधैश्च निहतैस्तत्र पार्थबाणाभिपीडितैः। बलमासीत्सुसंभ्रान्तं द्रोणार्जुनसमागमे
विधृन्वानौ तु तौ वीरौ धनुषी भारसाधने। प्राच्छादयेतामन्योन्यं दिधक्षन्तौ वरेषुभिः
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् । दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत्
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्। जेतारं सर्वदैत्यानां सर्वेषां च महारथम्