विष्फार्य च महाचापं हेमपृष्ठं दुरासदम्। संरब्धस्तु तदा द्रोणः प्रत्ययुध्यत फल्गुनम्
स सायकमयैर्जालैरर्जुनस्य रथं प्रति। भानुमद्भिः शिलाधौतैर्बाणैः प्राच्छादयद्दिशः
अर्जुनस्तु तदा द्रोणं महावेगैर्महारथः। विव्याध शतशो बाणैर्धाराभिरिव पर्वतम्
कालमेघ इवोष्णान्ते फल्गुनः समवाकिरत्
तस्य जाम्बूनदमयैश्चितरैश्चापच्युतैः शरैः। प्राच्छादयद्रथश्रेष्ठं भारद्वाजोऽर्जुनस्य वै
तथैव दिव्यं गाण्डीवं धनुरानम्य चार्जुनः । शत्रुघ्नं वेगवत्सृष्टं भारसाधनमुत्तमम्
शोभते स्म महावाहुर्गाण्डीवं विक्षिपन्धनुः। शरांश्च विसृजंश्चित्रान्सुवर्णविकृतान्बहून्
प्राच्छादयदमेयात्मा भारद्वाजरथं प्रति। द्रोणचापविनिर्मुक्तान्बाणान्बाणैरवारयत्
सरथोऽप्यचरत्पार्थः प्रेक्षणीयो महारथः । युगपद्दिक्षु सर्वासु सर्वतोऽस्त्राण्यवासृजम्
आददानं शरान्घोरान्संदधानं च पाण्डवम् । विसृजन्तं च क्रौन्तेयं न स्म पश्यन्ति लाघवाम्
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः। नादृश्यत ततो द्रोणो नीहारेणेव पर्वतः
मरीचिविकचस्येव राजन्भानुमतो वपुः। आसीत्पार्थस्य सुमहद्वपुः शरशतार्चितम्
क्षिपतः शरजालानि कौन्तेयस्य महात्मनः । तान्विधूय शरान्घोरान्द्रोणोऽपि समितिंजयः । बभासे तिमिरं व्योम्नि विधूय सविता यथा
अग्निचक्रोपमं घोरं मण्डलीकृतमाहवे। विकृष्य सुमहच्चापं मेघस्तनितनिस्वनम् । असकृत्मुञ्चतो बाणान्ददृशुः कुरवो युधि
दिक्षु सर्वासु विपुलः शुश्रुवेऽथ जनैस्तदा। द्रोणस्यापि धनुर्घोषो विद्युत्स्तनितनिस्वनः । अभवद्विस्मयकरः सैन्यानां भरतर्षभ
तप्तजाम्बूनदमयैर्दीप्तैरग्निसमैः शरैः। प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्
ततः काञ्चनपङ्खानां शराणां नतपर्वणाम्। वियद्गतानां चरतां दृश्यन्ते बहवो व्रजाः
शरासनात्तु द्रोणस्य प्रभवन्ति स्म सायकाः। एको दीर्घ इवाभान्तः प्रदृश्यन्ते महाशराः । आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः
एवं सुवर्णविकृतान्विमुञ्चन्तौ शरान्बहून्। आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः
तयोः शराश्च विबभुः कङ्कबर्हिणवाससः । पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बरे
तत्तु युद्धं महाघोरं तयोः संरब्धयोरभूत्। अत्यद्भुतमचिन्त्यं च वृत्रवासवयोरिव
महागजाविवासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्। अवारयच्छितैर्बाणैरर्जुनो जयतांवरः
दर्शयन्नैन्द्रमात्मानमुग्रमुग्रुपराक्रमः। इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्
जिघांसन्तं नरव्याघ्रमर्जुनं भीमदर्शनम् । विव्याध निशितैर्द्रोणः शरैः सन्नतपर्वभिः
हृष्टः समभवद्द्रोणो रणशौण्डः प्रतापवान् । अर्जुनेन समं क्रीडञ्शरैः सन्नतपर्वभिः
तौ व्यदारयतां शूरौ सन्नद्धौ रणशोभिनौ । उदीरयन्तौ दिव्यानि ब्राह्माद्यस्त्राणि भागशः
पार्थस्तु समरे शूरो दर्शयन्वीर्यमात्मनः। स मह्यस्त्रैर्महात्मानं द्रोणं प्राच्छादयच्छरैः
अस्त्रैरस्त्राणि संवार्य पार्थो द्रोणमवारयत्
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः। अमृष्यमाणयोः सङ्ख्ये बलिवासवयोरिव