उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत्। पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा । उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम्। भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः । मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः। स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः
आदित्य इव तेजस्वी बलवीर्यसमन्वितः। सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः। अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः । धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम्
पुराणमितिहासश्च अर्थविद्या च मानवम् । भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम्
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् । प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे
यस्याहमिष्टः सततं मम चेष्टः सदा च सः। क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम्
आचार्यं प्रापयेदानीं ममोत्तर महारथम्। अपरं पश्य संग्राममद्भुतं मम तस्य च
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति । आजगामार्जुनरथो भारद्वाजरथं प्रति
तमापतन्तं वेगेन पाण्डवं सरथं रणे। द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम्
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम्। आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत्
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः । कोपं नार्हसि नः कर्तुं सदा समरदुर्जय
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ । इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् । व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम्
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम्। अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान्
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् । अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन्
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः
अश्वाञ्शोणान्महावेगान्हंसवर्णैस्तु वाजिभिः । मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त पृथग्जनाः
रथं रथेन पार्थस्य समाहत्य परंतपः । हर्षयुक्तस्तदाऽऽचार्यः प्रत्यगृह्णात्स पाण्डवम्
समाश्लिष्टाविवान्योन्यं द्रोणपाण्डवयोर्ध्वजौ । दृष्ट्वा प्राकम्पत मुहुर्भारतानां महाचमूः
तत्तु युद्धं प्रववृते ह्याचार्यस्यार्जुनस्य च। विमुञ्चतोः शरानुग्रान्विशिखान्दीप्ततेजसः
तौ वीरौ वीर्यसंपन्नौ दृष्ट्वा समरमूर्धनि। आचार्यशिष्यौ रथिनौ कृतवीर्यौ तरस्विनौ
उभौ विश्रुतकर्माणावुभौ श्रमगतौ जये। उभावतिरथौ लोके ह्युभौ परपुंरजयौ। क्षिपन्तौ शरजालानि क्षत्रियान्मोह आविशत्
व्यस्मयन्त नराः सर्वे द्रोणार्जुनसमागमे। नराणां ब्रुवतां वाक्यं श्रूयते स महास्वनः
द्रोणं हि समरे कोऽन्यो योद्धुमर्हत्यथार्जुनात्। रौद्रः क्षत्रियधर्मोऽयं गुरं वै यदयोधयत्
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः । तौ समीक्ष्य तु संरब्धौ सन्निकृष्टौ महारथौ
छाद्येतां शरौघैस्तावन्योन्यमुपराजितौ । संयुगे संचकाशेतां कालसूर्याविवोदितौ