बलं सत्वं च तेजश्च लाघवं च व्यवर्धत ।। तच्चाद्भुतमभिप्रेक्ष्य भयमुत्तरमाविशत्
अस्त्राणां तव दिव्यानां शरौघान्क्षिपतः शितान्। मनो मे मुह्यतेऽत्यर्थं तव दृष्ट्वा पराक्रमम्
द्वैधीभूतं मनो मह्यं भयाद्भरतसत्तम । अदृष्टपूर्वं पश्यामि तव गाण्डीवनिस्वनम्
तव बाहुबलं चैव धनुः कर्षयतो बहु। तव तेजो दुराधर्षं यथा विष्णोस्त्रिविक्रमे
तमुत्तरश्चित्रमवेक्ष्य गाण्डिवं शरांश्च मुक्तान्सहसा किरीटिना । भीतोऽब्रवीदर्जुनमाजिमध्ये नाहं तवाश्वान्विषहे नियन्तुम्
तमब्रवीत्किंचिदिव प्रहस्य गाण्डीवधन्वा द्विषतां निहन्ता । मया सहायेन कुतोऽस्ति ते भयं प्रेह्युत्तराश्वाननुमन्त्र्य वाहय
आश्वासितस्तेन धनंजयेन वैराटिरश्वान्प्रतुतोदय शीघ्रम्। धनंजयश्चापि विकृष्य चापं विष्फारयामास महेन्द्रकल्पः
उत्तरं चैव बीभत्सुरब्रवीत्पुनरर्जुनः । न भेतव्यं मया सार्धं तात संग्राममूर्धनि
राजपुत्रोऽसि ते भद्रं कुले महति मात्स्यके। जातस्त्वं क्षत्रियकुले न विषीदितुमर्हसि
धृतिं कृत्वा सुविपुलां राजपुत्र रथं मम। युध्यमानस्य संग्रामे राजभिः सह वाहय
उक्त्वा तमेवं बीभत्सुरर्जुनः पुनरब्रवीत्। पाण्डवो रथिनां श्रेष्ठो भारद्वाजं समीक्ष्य तु
यत्रैषा काञ्चनी वेदिर्दृश्यतेऽग्निशिखोपमा । उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता
तत्र मां वह भद्रं ते द्रोणं योत्स्यामि सत्तमम्। भारद्वाजेन योत्स्येऽहमाचार्येण महात्मना
अमी शोणाः प्रकाशन्ते तुरगाः साधुवाहिनः । मुक्ता रथवरे तस्य सर्वशिक्षाविशारदाः
यतो रथवरे शूरः सर्वशस्त्रभृतांवरः। स्निग्धवैडूर्यसंकाशस्ताम्राक्षः प्रियदर्शनः
आदित्य इव तेजस्वी बलवीर्यसमन्वितः। सर्वलोकधनुःश्रेष्ठः सर्वलोकेषु पूजितः। अङ्गिरोशनसोस्तुल्यो नये बुद्धिमतांवरः
चत्वारो निखिला वेदाः साङ्गोपाङ्गाः सलक्षणाः । धनुर्वेदश्च कार्त्स्न्येन ब्राह्मं चास्त्रं प्रतिष्ठितम्
पुराणमितिहासश्च अर्थविद्या च मानवम् । भारद्वाजे समस्तानि सर्वाण्येतानि सांप्रतम्
क्षमा दमश्च सत्यं च तेजो मार्दवमार्जवम् । प्रतिष्ठिता गुणा यस्मिन्बहवो द्विजसत्तमे
यस्याहमिष्टः सततं मम चेष्टः सदा च सः। क्षत्रधर्मं पुरस्कृत्य तेन योत्स्ये हि सांप्रतम्
आचार्यं प्रापयेदानीं ममोत्तर महारथम्। अपरं पश्य संग्राममद्भुतं मम तस्य च
उत्तरस्त्वेवमुक्तोऽश्वांश्चोदयामास तं प्रति । आजगामार्जुनरथो भारद्वाजरथं प्रति
तमापतन्तं वेगेन पाण्डवं सरथं रणे। द्रोणोप्यभ्यद्रवत्पार्थं मतो मत्तमिव द्विपम्
स तु रुक्मरथं दृष्ट्वा कौन्तेयः समभिद्रुतम्। आचार्यं तं महाबाहुः प्राञ्जलिर्वाक्यमब्रवीत्
उषिताः स्मो वने वासं प्रतिकर्मचिकीर्षवः । कोपं नार्हसि नः कर्तुं सदा समरदुर्जय
अहं तु ताडितः पूर्वं प्रहरेयं तवानघ । इति मे वर्तते बुद्धिस्तद्भवान्क्षन्तुमर्हति
ततः प्राध्मापयच्छङ्खं भेरीपटहवादितम् । व्यक्षोभत बलं सर्वमुद्धूतमिव सागरम्
ततस्तु प्राहिणोद्द्रोणः शरानथ स विंशतिम्। अप्राप्तानेव तान्पार्थश्चिच्छेद कृतहस्तवान्
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् । अवाकिरत्ततो द्रोणः शीघ्रहस्तं प्रदर्शयन्
एवं प्रववृते युद्धं भारज्वाजकिरीटिनोः