ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर। विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् । इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम्
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा। तथैव बद्धमात्मानमबद्ध इति मन्यसे
न हि तावद्वने वासो यथोक्तं चरितस्त्वया । क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात्। तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः। योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम्
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम्। अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः
शरवर्षेण महता पर्जन्य इव वृष्टिमान्। अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः
जिघांसुः समरे कर्णं विससर्ज शरान्बहून्। तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः
तयोर्दैवासुरसमः सन्निपातोऽभवन्महान्। किरतोः शरजालानि कृत्स्नं व्योम निरन्तरं
उत्पेतुर्मेघजालानि घोररूपाणि सर्वशः । ववर्ष च रजो भौमं कर्णपार्थसमागमे
न स्म सूर्यः प्रतपति न च वाति समीरणः। शरप्रच्छादितं व्योम छायाभूतमिवाभवत्
गाण्डीवस्य च निर्घोषः कर्णस्य धनुषस्तथा। दह्यतामिव वेणूनामासीत्परमदारुणः
अर्जुनस्तु हयान्नागान्रथांश्च विनिपातयन्। क्षोभयामास तत्सैन्यं कर्णं विव्याध चासकृत्
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्। छिन्नधन्वा ततः कर्णः शक्तिं चिक्षेप वेगवान् तां शक्तिं समरे पार्थश्चिच्छेद निशितैः शरैः
ततो निपेतुर्बहुशो राधेयस्य पदानुगाः । तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम्
अशेरतावृत्य महीं समग्रां पार्थेषुमार्गे निहता द्विपेन्द्राः । हिरण्यकक्ष्यां शरजालचित्रा यथा नगाः पावकजालनद्धाः
तं शत्रुसेनाङ्गनिबर्हणानि कर्माणि कुर्वाणममानुषाणि । वैकर्तनः पूर्वममृष्यमाणः समार्पयल्लक्ष्यमिवाशु पार्थम्
ततश्चतुर्भिस्तुरगान्विकृष्य विव्याध कर्णोऽथ धनंजयस्य। षङ्भिश्च सूतं दशभिर्हयांश्च षष्ट्या च पार्थं त्रिभिरस्य केतुम्
सविष्फुलिङ्गोज्ज्वलभीमघोषः कोपेन्धनः केतुशिखः शरार्चिः । कर्णाग्निरस्त्रानिलभीमवातो बभौ दिधक्षन्निव पार्थकक्षम्
स्वनेमिशङ्खस्वनभीमघोषश्चलत्पताकोज्ज्वलभीमविद्युत्। पार्थाम्बुदः शस्त्रशराम्बुधारः कर्णानलं संशमयांचकार
तेनातिविद्धः समरे किरीटी प्रबोधितः सिंह इव प्रसुप्तः। गाण्डीवधन्वा प्रवरः कुरूणां प्रतत्वरे कर्णवधाय जिष्णुः
स ब्राह्ममस्त्रं समरे किरीटी प्रादुश्चकाराद्भुतवीर्यकर्मा । सन्तापयन्कर्णरथं शरौघैर्लोकानिमान्त्सूर्य इवांशुमाली
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात्। आकर्णपूर्णे तु धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम्
अथास्य बाहू सशिरो ललाटं ग्रीवामुरः स्कन्धभुजान्तरं च। कर्णस्य पार्थो युधि निर्बिभेद वज्रैरिवाद्रिं भगवान्महेन्द्रः
स पार्थमुक्तानविषह्य बाणान् गजो गजेनेव जितस्तरस्वी। विहाय संग्रामशिरोपयातो वैकर्तनः पार्थशराभितप्तः ।। 77
जितं वैकर्तनं दृष्ट्वा पार्थो वैराटिमब्रवीत्। स्थिरो भव त्वं संग्रामे जयोऽस्माकं नृपात्मजः
यावच्छङ्खमुपाध्यास्ये द्विषतां रोमहर्षणम्। अविक्लबमसंभ्रान्तमव्यक्तहृदयेक्षणम्
याहि शीघ्रं यतो द्रोणो ममाचार्यो रणे स्थितः ।। तथा संक्रीडमानस्य अर्जुनस्य रणाजिरे