ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम्। अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् । बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु। प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम्
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम्। ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम्। ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः । वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः। राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः । सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान्। चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् । तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम्। प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान्
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन्
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे। न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम्
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम्। कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि। तत्सत्यं कुरु राधेय कुरुमध्ये मया सह
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया । दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम्
धर्मपाशनिबद्धेन यन्मया मर्षितं तव। तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम्। प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः
इदानीमेव तावत्त्वमपयातो रणान्मम। कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् । त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर। विशेषितो हि त्वं वाचा कर्मणाप्रतिमं भुवि
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् । इति गृह्णीम ते पार्थ तमदृष्ट्वा पराक्रमम्
धर्मपाशनिबद्धेन यत्त्वया मर्षितं पुरा। तथैव बद्धमात्मानमबद्ध इति मन्यसे
न हि तावद्वने वासो यथोक्तं चरितस्त्वया । क्लिष्टस्त्वमर्थलोभात्तु समयं छेत्तुमिच्छसि
यदि चेन्द्रः स्वयं पार्थ तव युद्ध्येत कारणात्। तथाऽपिन व्यथा काचिन्मम स्याद्विक्रमिष्यतः
अयं कौन्तेयकामस्ते नचिरात्समुपस्थितः। योत्स्यसे हि मया सार्धमत्र पश्यामि ते बलम्
इति कर्णो ब्रुवन्नेव बीभत्सुमपराजितम्। अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः
प्रतिजग्राह तान्पार्थः प्रीयमाणो महारथः
शरवर्षेण महता पर्जन्य इव वृष्टिमान्। अभीयाय हि बीभत्सुर्गाण्डीवं विक्षिपन्धनुः
जिघांसुः समरे कर्णं विससर्ज शरान्बहून्। तान्कर्णः प्रतिजग्राह वायुवेगमिवाचलः