हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः । वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये। सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः। चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे। तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः । एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी । प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् । विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः। प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् । समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम्
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ । कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात्। क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या
ततः सयुग्याः सरथाः सनागा योधा विनेदुर्भरतर्षभाणाम्। अन्तर्हितं भीष्ममुखाः समीक्ष्य किरीटिना कर्णरथं पृषत्कैः
स चापि तानर्जुनबाहुमुक्ताञ्शराञ्शरौघैः प्रतिहत्य तूर्णम् । बभौ महात्मा सधनुः सबाणः सविष्फुलिङ्गोऽग्निरिवाथ कर्णः
ततस्तु जज्ञे करतालघोषः सशङ्खभेरीपणवाकुलस्तु। प्रक्ष्वेलितास्फोटितसिंहनादैर्वैकर्तनं पूजयतां कुरूणाम्
आधूतलाङ्गूलमहापताकं रथोत्तमं श्रेष्ठतमं कुरूणाम्। ततः सगाण्डीवकृतप्रणादं किरीटिनं प्रेक्ष्य ननाद कर्णः
पार्थोपि वैकर्तनमर्दयित्वा साश्वं सकेतुं सरथं ससूतम्। ननाद हर्षात्सहसा किरीटी पितामहं द्रोणकृपौ च दृष्ट्वा
सिषेच पार्थं बहुभिः शरौघैर्वैकर्तनः संयति तीक्ष्णवेगैः । वैकर्तनश्चापि किरीटमाली प्रच्छादयामास शितैः शरौघैः
तयोरमोघन्सृजतोः शरौघानस्त्रज्ञयोरास महान्विमर्दः। राहुप्रमुक्ताविव चन्द्रसूर्यौ क्षणान्तरेणानुददर्श लोकः
हतास्तु पार्थेन रथप्रवीरा भूमौ युवानः सुपुपुः सुकेशाः । सुवर्णलोहायसवर्मगात्रा वृक्षा यथा हैमवते निकृत्ताः
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा व्यधमत्सपत्नान्। चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते
सुशीर्णपर्णानि यथा वसन्ते विधूनयन्वायुरिवाल्पसारान् । तथा सपत्नान्विधमन्किरीटी चचार सङ्ख्येऽतिरथो रथेन
शत्रूनिवेन्द्रः समरे किरीटी विद्रावयंस्तद्रथवीरबृन्दम्। प्राच्छादयच्चरुकिरीटमाली वरेषुभिः शत्रुगणाननेकान्
कर्णं तदोवाच किरीटमाली शूरः कुरूणां प्रवरोऽभिगर्जन्
कर्ण यस्त्वं सभामध्ये बह्वबद्धं प्रभाषसे। न मे युधि समोस्तीति तदिदं प्रत्युपस्थितम्
सभायां पौरुषं प्रोच्य धर्ममुत्सृज्य केवलम्। कर्तुमिच्छसि यत्कर्म तन्मन्ये दुष्करं त्वया
यत्त्वया कथितं पूर्वं नास्ति मत्सम इत्यपि। तत्सत्यं कुरु राधेय कुरुमध्ये मया सह
सभायां यस्तु पाञ्चालीं क्लिश्यमानां तदा त्वया । दृष्टवानस्मि तस्याद्य फलमश्रुहि केवलम्
धर्मपाशनिबद्धेन यन्मया मर्षितं तव। तस्य पापस्य राधेय फलं प्राप्नुहि दुर्मते
एहि कर्ण मया सार्धमिहाद्य कुरु वैशसम्। प्रेक्षका कुरवः सन्तु सर्वे ते सहसैनिकाः
इदानीमेव तावत्त्वमपयातो रणान्मम। कस्माज्जीवसि राधेय निहतस्त्वनुजस्तव
यो भ्रातरं पातयित्वा कस्त्यक्त्वा च रणाजिरम् । त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः