यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव। भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर। तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम्
एवमुक्तस्तथेत्याह वृषपर्वा महाकविम्। देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव। नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम्
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः। देवयानि प्रसीदेति पपात भुवि पादयोः
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे।' यं काममभिकामाऽसि देवयानि शुचिस्मिते। तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम्
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये। अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता
उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय। यं च कामयते कामं देवयानी करोतु तम्
त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्। उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः। सायं कामयते कां स कार्योऽद्य त्वयाऽनघे
यं सा कामयते कां करवाण्यहमद्य तम्। यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्। मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते
ततः कन्यासहस्रेण वृता शिबिकया तदा। पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात्
अहं दासीसहस्रेण दासी ते परिचारिका। अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता
स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः। स्तूयमानस्य दुहिता कथं दासी भविष्यसि
येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत्। अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः। देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्
प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम। अमोघं तव विज्ञानमस्ति विद्याबलं च ते
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः। प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम। वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा। तमेव देशं संप्राप्ता यथाकामं चचार सा
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्। क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च। पुनश्च नाडुषो राजा मृगलिप्सुर्यदृच्छया
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः। ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः। आसनप्रवरे दिव्ये सर्वरत्नविभूषिते। उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम्। `आसनाच्च ततः किंचिद्विहीनां हेमभीषिताम्
असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम्। ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम्
गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत। दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते। गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप। शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्