तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा। भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः । ततो व्यूह्य महाबाहुः समरेष्वपराजितः
रथनागाश्वकलिकं युयुजे युद्धकोविदः । अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम्
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि। अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि। गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः। संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् । विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम्
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् । सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम्
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः । तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् । तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम्
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै । विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये
तमापतन्तं परमेण तेजसा समीक्ष्य वैकर्तनमभ्यरक्षन्। अभ्यद्रवंस्ते रथवीरवृन्दा व्याघ्रेण चाक्रान्तमिवर्षभं रणे
चित्राङ्गदश्चित्ररथश्च वीरः संग्रामजिद्दुःसहचित्रसेनौ । विविंशतिर्दुर्मुखदुर्जयौ च विकर्णदुःशासनसौबलाश्च। शोणो निषेधश्च तमन्वयुस्ते वैकर्तनं शीघ्रतरं युवानः
पुत्रा ययुस्ते सहसोदराश्च वैकर्तनं पार्थगतं समीक्ष्य । प्रगृह्य चापानि महाबला रणे धनंजयं पर्यकिरञ्शरार्चिभिः
तेषां धनुर्ज्याकृतनैकतन्त्रीं प्रासोपवीणां शरसङ्घकोणाम्। कराग्रयन्त्रां स्थिरचापदण्डां वीणामुपावादयदाशु पार्थः
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन । विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद
ततो विकर्णस्य धनुर्विकृत्य जाम्बुनदेनोपहितं दृढज्यम्। न्यपातयत्तद्ध्वजमस्य विद्ध्वा छिन्नध्वजः सोऽप्यपयाञ्जवेन
तं शात्रवाणां गणवाधितारं कर्माणि कुर्वाणममानुपाणि। शत्रुंतपो वैरममृष्यमाणः समार्पयत्कूर्मनखेन पार्थम्
स तेन राज्ञाऽतिरथेन विद्धो विगाहमानो ध्वजिनीं पेरपाम् । शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान
ततः स विद्धो भरतर्षभेण बाणेन कायावरणातिगेन । गतासुराजौ निपपात राजन्नगो नगाग्रादिव वातरुग्णः
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः । चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि
हताश्च पार्थेन नरप्रवीरा भूमौ युवानः सुष्रुषुः सुवेषाः । वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन सङ्ख्ये। सुवर्णकार्ष्णायसवर्भनद्धा नागा यथा हैमवते प्रवृद्धाः
तथा स शत्रून्समरे विनिघ्नन् गाण्डीवधन्वा पुरुषप्रवीरः। चचार सङ्ख्ये विदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते
सुजीर्णपर्णानि यथा वसन्ते विशातयित्वा तु रजो नुदन्खे। तथा सपत्नान्विकिरन्किरीटी चचार सङ्ख्येऽतिरथो रथेन
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्वः । एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमदप्रतापी । प्रगृह्य दन्ताविव नागराजो महाबलः सिंहमिवाजगाम
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः पार्थमुपाजघान् । विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्विजघ्ने
तमापतन्तं समरे किरीटी वैकर्तनं सर्वसमृद्धतेजाः। प्रच्छादयामास महाधनुष्मान्न्यषेधयच्छत्रुगणांश्च वीरः
निहत्य कर्णस्य ततः किरीटी पुरश्चरांश्चापि च पृष्ठगोपान् । समीपमभ्यागमदप्रमेयो वितत्य पक्षौ गरुडो यथोरगम्
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ । कर्णं च पार्थं च निशम्य युद्धे दिदृक्षमाणाः कुरवोऽवतस्थुः
तं पाण्डवः स्पष्टमुदीर्णकोपं कृतागसं कर्णमुदीक्ष्य कोपात्। क्षणेन साश्वं सरथं ससूतमन्तर्दधे मेघ इवातिवृष्ट्या