दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः। सततं दृश्यते युद्धे सायकासनमण्डलम्
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन। नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः
महागजसहस्रस्य युगपन्मृद्गतो वनम्। कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत्
नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह। हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे
घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे। कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः
कुरुसेनाशरीराणि पार्थेनानाहतान्यपि । पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात्
ओषधीनां शिरांसीव कालपक्तिसमन्वयात्। अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात्
चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि
अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित्। चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम्
लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः । तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः
लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः। लोहितेषु निमग्नास्ते निहताश्च किरीटिना
बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः। आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं
अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः। निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः
तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान्। दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान्
स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत्। अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः
दुःसहं दशभिर्बाणैरर्जुनः समविध्यत । दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः। भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे
स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च। वासविर्द्विषतां मध्ये विव्याध परमेषुणा
स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः। अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना
ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः । सारथेश्च शिरः कायादपाहरदरिन्दमः । अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम्
तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे। हताश्वसूते विरथे ततोऽनीकमभज्यत
तत्प्रभग्नं बलं सर्वं विपुलौघस्वनं तथा। भीष्ममासाद्य संतस्थौ वेलामिव महोदधिः
तानि सर्वाणि गाङ्गेयः समाश्वास्य परंतपः । ततो व्यूह्य महाबाहुः समरेष्वपराजितः
रथनागाश्वकलिकं युयुजे युद्धकोविदः । अभेद्यं पंरसैन्यानां शूरैरपि समीक्षितम्
आचार्यदुर्योधनसूतपुत्रैः कृपेण भीष्मेण च पालितानि। अवध्यकल्पानि दुरासदानि रथाश्वमातङ्गसमाकुलानि च
तेषामनीकानि किरीटमाली व्यूढानि दृष्ट्वा विपुलध्वजानि। गाण्डीवधन्वा द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच
सुसंगृहीतैरथ रश्मिभिस्त्वं हयान्नियम्य प्रसमीक्ष्य यत्तः। संप्रेषयाशु प्रतिवीरमेनं वैकर्तनं योधयितुं वृणोमि
यां हस्तिकक्ष्यां बहुधा विचित्रां स्तम्भे रथे पश्यसि दर्शनीयाम् । विवर्तमानां ज्वलनप्रकाशां वैकर्तनस्यैतदनीकमग्र्यम्
एतेन शीघ्रं प्रतिपादयेमान् श्वेतान्हयान्काञ्चनजालकक्ष्यान् । सर्वं जवं तत्र विदर्शयिष्ये ह्यासादयैतद्रथवीरवृन्दम्
गजो गजनेव हि योद्धुकामो मया सदा काङ्क्षति सूतपुत्रः । तमेव मां प्रापय सूतपुत्रं दुर्योधनोपाश्रयजातदर्पम् । तं पातयिष्यामि रथस्य मध्ये सहस्रनेत्रोऽशनिनेव वृत्रम्
स तैर्हयैर्जातजवैर्बृहद्भिः पुत्रो विराटस्य हिरण्यकक्ष्यै । विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये