अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः । पार्थः संरञ्जयामास रुधिरेणाकुलं बलम्
सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च। छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः
ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश। रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः
निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः। शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः
चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान्। मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः
कौरवाणां गजानां च शरीरैर्गतचेतसाम् । क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम्
अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव । बडबामुखसंभूतः कालाग्निरिव संवृतः
यथा युगान्तसमये सर्वं स्थावरजङ्गमम् । कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी
तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च। दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले
रणे शक्तिममित्राणां प्रणीयोपनिनाय सः। चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव
सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे । शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् । दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम्
खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव। अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः
अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना । तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु
वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् । किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च
ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः । नीहारेणेव भूतानि छन्नानीह चकाशिरे
सकृदेव न तं शेकुः कथमभ्यसितुं परे । अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान्
तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे । द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा
स तद्धि क्षोभयामास विगाह्यारिबलं रथी। अनन्तवेगो भुजगः क्रीडन्निव महार्णवे
अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा । संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः
संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः। संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः
दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः। सततं दृश्यते युद्धे सायकासनमण्डलम्
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन। नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः
महागजसहस्रस्य युगपन्मृद्गतो वनम्। कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत्
नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह। हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे
घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे। कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः
कुरुसेनाशरीराणि पार्थेनानाहतान्यपि । पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात्
ओषधीनां शिरांसीव कालपक्तिसमन्वयात्। अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात्
चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि
अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित्। चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम्
लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः । तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः