पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा । युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः। दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः
महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः। उवाच स महाराज राजा दुर्योधनस्तदा
न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि । तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु
एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु । अयशो नातिवर्तेत लोकयोरुभयोरपि
किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम्। तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम्
एतावदुक्त्वा राजा वै ह्यभियानमियेष सः। तथा दशसहस्राणि वीराणां हि धनुष्मताम् । अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम्
वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः । भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः
अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः। अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः
पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन्। द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान्
अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः। इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः
ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम्। शरौघानभिवर्षन्तो नादयन्तो दिशो दश
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः। दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान्
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्। तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः
न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम्। अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम्
दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च। शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात्। ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया
इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके। दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ। न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा
समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान्। वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् । त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि
कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः । नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम्
तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः। तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः
अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः । पार्थः संरञ्जयामास रुधिरेणाकुलं बलम्
सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च। छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः
ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश। रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः
निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः। शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः
चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान्। मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः
कौरवाणां गजानां च शरीरैर्गतचेतसाम् । क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम्
अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव । बडबामुखसंभूतः कालाग्निरिव संवृतः
यथा युगान्तसमये सर्वं स्थावरजङ्गमम् । कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी
तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च। दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले
रणे शक्तिममित्राणां प्रणीयोपनिनाय सः। चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव