आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः। आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः
सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम्। अत्रैव चाविरोधेन एष धर्मः सनातनः
यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः । ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे
भारताचार्यमुख्येन ब्राह्मणेन महात्मना । तेन मे युध्यमानस्य मन्दं वाहय सारथे
ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते । भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते
ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् । दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः । तेन मे युध्यमानस्य मन्दं वाहय सारथे
ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते । आचार्यवरमुख्यस्तु कृप एष महारथः
द्रोणेन च समो वीर्ये पितुर्मे परमः सखा। तेन मे युध्यमानस्य मन्दं वाहय सारथे
यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः। ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः
एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम्। दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः
यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः । अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति
एष वै स्पर्धते नित्यं मया सह सुदुर्जयः । जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः
सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः । युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी
अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना। द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव
महारथेन शूरेण सूतपुत्रेण धन्विना। तेन मे युध्यमानस्य शीघ्रं वाहय सारथे
यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः । एष दुर्योधनस्तत्र कौरवो यशसा वृतः
लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् । तेन मे युध्यमानस्य शीघ्रं वाहय सारथे
यस्तु श्वेतावदातेन पञ्चतालेन केतुना । वैडूर्यमयदण्डेन तालवृक्षेण राजते
हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् । रामेण जामदग्न्येन द्वैरथेनाजितः पुरा
शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् । एष शान्तनवो भीष्मः सर्वेषां नः पितामहः
ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः । जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः । पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत्
इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे। रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः
अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान्। उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम्
कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे। न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः । संग्रामशिरसो मध्ये दृम्भते केसरी यथा
शूरोसि यदि संग्रामे दर्शयस्व सभां विना
यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा। पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता। मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम्
एवमुक्तस्तथा कर्णः क्रोधादुद्वृत्य लोचने। द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ
नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् । पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः
सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् । गर्जतां जायते दर्पः स्वरश्च न विषीदति