संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ।। तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ।। तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ।। गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम्
ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम्। घोराणि कुरुवीराणां पर्यकीर्यन्त भारत
कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम्। भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः
तथा रथसहस्रेण भ्रातृभिः परिवारितः। पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन्
अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः । भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः
तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् । वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः
जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते। शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते
आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः। आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः
सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम्। अत्रैव चाविरोधेन एष धर्मः सनातनः
यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः । ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे
भारताचार्यमुख्येन ब्राह्मणेन महात्मना । तेन मे युध्यमानस्य मन्दं वाहय सारथे
ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते । भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते
ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् । दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः । तेन मे युध्यमानस्य मन्दं वाहय सारथे
ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते । आचार्यवरमुख्यस्तु कृप एष महारथः
द्रोणेन च समो वीर्ये पितुर्मे परमः सखा। तेन मे युध्यमानस्य मन्दं वाहय सारथे
यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः। ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः
एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम्। दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः
यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः । अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति
एष वै स्पर्धते नित्यं मया सह सुदुर्जयः । जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः
सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः । युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी
अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना। द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव
महारथेन शूरेण सूतपुत्रेण धन्विना। तेन मे युध्यमानस्य शीघ्रं वाहय सारथे
यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः । एष दुर्योधनस्तत्र कौरवो यशसा वृतः
लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् । तेन मे युध्यमानस्य शीघ्रं वाहय सारथे
यस्तु श्वेतावदातेन पञ्चतालेन केतुना । वैडूर्यमयदण्डेन तालवृक्षेण राजते
हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् । रामेण जामदग्न्येन द्वैरथेनाजितः पुरा
शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् । एष शान्तनवो भीष्मः सर्वेषां नः पितामहः