विक्रोशमात्रं यात्वा तु पार्थो वैराटिमब्रवीत्। इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम
एतदग्रं गवां दृष्टं मन्दं वाहय सारथे। याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च
परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् । गच्छन्ति सत्वरा गावः सगोपाः परिमोचय
तत्र गत्वा पशून्वीर सगोपान्परिमोचय। अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर
इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम्। पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः
ततः स रथिनां श्रेष्ठो नाम विश्राव्य चात्मनः। निशिताग्राञ्शरांस्तीक्ष्णान्मुमोचांतकसन्निभान्
शलभैरिव चाकाशं धाराभिरिव पर्वतम्। निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना
विकीर्यमाणास्तु शरैस्ते योधा धार्तराष्ट्रिकाः। गाश्चैव न च पश्यन्ति पार्थमुक्तैरजिह्मगैः
सा चापि बहुला सेना पार्थबाणाभिपीडिता। नापश्यद्विवृतां भूमिं नान्तरिक्षं दिशोपि वा
अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः। पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः
तेषां नैवापयाने च नाभियाने भवन्मतिः । शीघ्रतामेव पार्थस्य पूजयन्तस्तु विस्मिताः
चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम्। ततः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम्। ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्
तस्य शङ्खस्य शब्देन धनुषो निस्वनेन च। शब्देनामानुषाणां च भूतानां ध्वजवासिनाम् । वियद्गतानां देवानां मानुषाणां रवेण च
ऊर्ध्वं पुच्छं विधून्वाना हेममाणाः समन्ततः । गावः सवत्साः संत्रस्ता निवृत्ता दक्षिणां दिशं
ततः स समरे शूरो बीभत्सुः शत्रुपूगहा। गोपालांश्चोदयामास गावश्चोदयतेति च
उत्तरं चाह बीभत्सुर्हर्षयन्पाण्डुनन्दनः । गवामग्रं समीक्षस्व गश्चैवाशु निवर्तय
यावदेते निवर्तन्ते कुरवो जवमास्थिताः । याह्युत्तरेण गाश्चैताः सैन्यानां च नृपात्मज
पश्यन्तु कुरवः सर्वे मम वीर्यपराक्रमम्
दृष्टवा यान्तमदूरस्थं क्षिप्रमभ्यपतन्रथैः ।। हस्त्यश्वपरिवारेण महताऽभिविराजता
योधैः प्रासासिहस्तैश्च चापबाणोद्यतायुधैः ।। तान्यनीकान्यशोभन्त कुरूणामाततायिनाम्
संसर्पन्त इवाकाशे विद्युत्वन्तो वलाहकाः ।। तानि दृष्ट्वाऽप्यनीकानि निवर्तितरथानि च
पार्थोऽपि वायुवद्धोरं सैन्याग्रं व्यधुनोच्छरैः ।। तां शत्रुसेनां तरसा प्रणुद्य गाश्चापि जित्वा धनुषा परेण
दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाऽभ्यगच्छन् ।। गोषु प्रयातासु जवेन मात्स्यान्किरीटिनं प्रीतियुतं च दृष्ट्वा
पशून्समादाय ततो निवृत्ता गोपाः समस्ताः प्रययुश्च राष्ट्रम्
ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम्। घोराणि कुरुवीराणां पर्यकीर्यन्त भारत
कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम्। भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः
तथा रथसहस्रेण भ्रातृभिः परिवारितः। पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन्
अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः । भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः
तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् । वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः
जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते। शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते