श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ।। इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ।। इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ।। चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ।। निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम्
अभिवादयते पार्थः पूजयन्मामरिंदमः ।। अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ।। द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ।। रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी
खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् । नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम्
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् । इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम। यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम्
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् । परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम्
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् । यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् । सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः । तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् । असभ्यानां च वक्तारं कुरूणां किल किल्विषम्
राजानं नेह पश्यामि निरापिषमिदं बलम्। अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम्। कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः । दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः। दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः। सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः
दुर्योधनं न पश्यामि क्व नु राजा स तिष्ठति। उत्सृंज्यैतद्रथानीकं याहि यत्र सुयोधनः
तं हत्वा संनिवर्तिष्ये गाः स आदाय गच्छति। गवाग्रमभितो याहि यत्र राजा भविष्यति
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः। संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा
ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः। चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः
अतीव ज्वलते लक्ष्म्या पाकशासनिरागतः। एष दुर्योधनं पार्थो मार्गते निकृतिं स्मरन्
सेनामत्यर्थमालोक्य त्वरते ग्रहणेऽस्य च। मृगं सिंह इवादातुमीक्षते पाकशासनिः
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमर्हति। तस्य पार्ष्णि ग्रहीष्यामो जवेनाभिप्रधावतः
न ह्येनमभिसंक्रुद्धमेको युद्ध्येत संयुगे। अन्यो देवान्महादेवात्कृष्णाद्वा देवकीसुतात्। आचार्याच्च सपुत्राद्वा भारद्वाजान्महारथात्
किं नो गावः करिष्यन्ति द्रव्यं वा विपुलं तथा। दुर्योधनः पार्थगतः पुरा प्राणान्विमुञ्चति
इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः। अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे