उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम्। गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम्
गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय । यावदेते निवर्तन्ते कुरवो जवमास्थिताः । तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः । सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत्
ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम्। द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात्
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत्। ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् । न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् । अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे
एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते। मेघःक सविद्युत्स्तनितो रोरवीति च वानरः
आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम्। रथस्याम्बुधरस्येव श्रूयते भृशदारुणः
दारयन्निव तेजस्वी वसुधां वासवात्मजः । एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः
श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ।। इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ।। इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ।। चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ।। निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम्
अभिवादयते पार्थः पूजयन्मामरिंदमः ।। अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ।। द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ।। रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी
खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः
तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् । नारयः प्रेक्षितुं शेकुस्तपन्तं हि यथा रविम्
स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत् । इषुपातमात्रे सेनायाः स्थापयाश्वानरिंदम। यावत्समीक्षे व्यूहेऽस्मिन्मम शत्रुं सुयोधनम्
रक्तवैडूर्यविकृतं मणिप्रवरभूषितम् । परं जानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम्
यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् । यमाय प्रेषयिष्यामि सहायः स्याद्यदीश्वरः
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् । सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि
हनिष्यामि तमेवाद्य शरैर्गाण्डीवनिःसृतैः । तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः
शरैश्च शमयिष्येऽहं धार्तराष्ट्रं ससौबलम् । असभ्यानां च वक्तारं कुरूणां किल किल्विषम्
राजानं नेह पश्यामि निरापिषमिदं बलम्। अभिद्रेव ह राजानं व्यक्तमित्यत्र निर्भयः
आस्थितो मध्यमाचार्योप्यश्वत्थामाऽप्यनन्तरम्। कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ
भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः । दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः
साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः। दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रितः
पृष्ठतः कुरुमुख्यश्च भीष्मस्तिष्ठति दंशितः। सोऽर्धसैन्येन बलवान्सर्वेषां नः पितामहः