विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः। शकुनिः सौबलश्चैव दुःसहश्च महाबलः । द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः। अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन्
सर्वे महारथाः शूरा महेष्वासा महाबलाः । युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि
अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः । वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम्
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः । सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत
ततः सुदर्शनं नाम प्रासादं हरिवाहनः । सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् । तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः । तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत । मणिरत्नविचित्राणि नानारूपाणि भागशः । आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च। तथा धातुर्विधातुश्च मित्रस्य धनदस्य च। रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च
काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः। दिव्यपुष्पाभिसवीतास्तत्र चित्राणि भेजिरे
तस्मिंस्तु राजन्प्रासादे दिव्यरत्नविभूषिते । दिव्यगन्धसमायुक्ताः स्रजो दिव्याश्चकाशिरे
दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः । ऋतवः पुष्पमादाय समतिष्ठन्त भारत
प्रजानां पतयः सप्त सप्त चैव महर्षभः। तत्र देवर्षयश्चैव देवराजं दिवौकसः । इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः
न पङ्को न रजस्तत्र प्रविवेश कथंचन । आदित्यश्च विरूक्षोत्र नातिवेलमिवातपत्
दिव्यगन्धं समादाय वायुस्तत्राभिगच्छति। आकाशं च दिशः सर्वा दर्शनीयमदृश्यत
तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् । अम्बरे विमलेऽतिष्ठन्प्रासादं कामगामिनम्
तत्र राजर्षयश्चैव समारुह्य दिवौकसः । श्वेतो राजा वसुमनास्तथा भद्रः प्रदर्शनः
नृगो ययातिर्नहुपो मान्धात भरतः कुरुः । अष्टकश्च शिबिश्चोभौ स च राजा पुरूरवाः
डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा। दिलीपः केरलः पूरुः शर्यातिः सोमकस्तदा
हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा। भगीरथश्च राजर्षिः सर्वे च जनमेजय
पाण्डुश्चैव महाराजश्चामरव्यजनोज्ज्वलः। छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः
एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः । कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः
गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः । दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा
वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः । आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः
इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः । एकस्य च बहूनां च युद्धं द्रुष्टुं व्यवस्थिताः ।। सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः । उपायादर्जुनंस्तूर्णं रथघोषेण नादयन्
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् । दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम्
त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः । संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत्
राजानं नात्र पश्यामि रथानीके व्यवस्थितम्। दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः