अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्। न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः । धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात्
यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् । वृणुयुर्माणं पार्था नानृतत्वं कथंचन
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः । अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम्
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्। तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम्
न हि पश्यामि संग्रामे कदाचिदपि कौरव । एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः
संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ । अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्
तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् । क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः । भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे । तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे
नाहं राज्यं प्रदास्यामि पाण्डवेभ्यः पितामह। ग्रामं सेनां च दासांश्च स्वल्पं द्रव्यमपि प्रभो । युद्धोपचारिकं यत्तु तत्सर्वं संविधीयताम्
भीष्मस्योपरते वाक्ये तथा दुर्योधनस्य च। प्राप्तमर्थ्यं च यद्वाक्यं द्रोणश्वाह द्विजोत्तमः
यत्तु युद्धोपचरितं भवेद्वा धर्मसंहितम्। कस्त्वया सदृशो लोके भूयस्त्वं वक्तुमर्हसि
अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते । सर्वथा हि मया श्रेयो वक्तव्यं कुरुनन्दन
राजा बलचतुर्भागं क्षिप्रमादाय गच्छतु । ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु । वयं चार्धेन सैन्यस्य प्रतियोत्स्याम पाण्डवम्
अहं भीष्मश्च कर्णश्च अश्वत्थामा कृपस्तथा। प्रतियोत्स्याम बीभत्सुमागतं कृतनिश्चयम्
एवं राजा सुगुप्तः स्यान्न क्लैब्यं गन्तुमर्हति । मत्स्यं वा पुनरायातमथवापि शतक्रतुम् । अहमावारयिष्यामि वेलेव मकरालयम्
तद्वाक्यं रुरुचे तेषां द्रोणेनोक्तं महात्मना । तथाहि कृतवान्राजा कौरवाणामनन्तरम्
भीष्मः प्रस्थाप्य राजानं गोधनं तदनन्तरम् । सेनामुख्यान्व्यवस्थाप्य व्यूहितुं संप्रचक्रमे
द्रोणस्योपरते वाक्ये भीष्मः प्रोवाच बुद्धिमान्। आचार्य मध्ये तिष्ठ त्वमश्वत्थामा तु सव्यतः। कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम्
विकर्णश्च महावीर्यो दुर्मुखश्च परन्तपः। शकुनिः सौबलश्चैव दुःसहश्च महाबलः । द्रोणस्य पार्श्वमजिताः पालयन्तु महाबलाः
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः। अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन्
सर्वे महारथाः शूरा महेष्वासा महाबलाः । युद्ध्यन्तु पाण्डवश्रेष्ठमागतं यत्नतो युधि
अभेद्यं परसैन्यानां व्यूहं व्यूह्य कुरूत्तमः । वज्रगर्भं व्रीहिमुखं पद्मचन्द्रार्धमण्डलम्
तस्य व्यूहस्य पश्चार्धे भीष्मश्चाथोद्यतायुधः । सौवर्णं तालमुच्छ्रित्य रथे तिष्ठन्नशोभत
ततः सुदर्शनं नाम प्रासादं हरिवाहनः । सर्वान्देवान्समारोष्य प्रययो यत्र पाण्डवः
स्थूणाराजिसहस्रं तु यत्र मध्ये प्रतिष्ठितम् । तत्र सूर्यपथेऽतिष्ठद्विमला महती सभा
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः । तत्र श्वेतानि चक्राणि काञ्चनस्फाटिकानि च
तथा चित्राणि छत्राणि दिव्यरूपाणि भारत । मणिरत्नविचित्राणि नानारूपाणि भागशः । आकाशे सह दृश्यन्ते भानुमन्ति शुभानि च
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च। तथा धातुर्विधातुश्च मित्रस्य धनदस्य च। रुद्रस्य विष्णो सवितुस्त्रिदशानां तथैव च